________________
६७२] सिद्धान्तकौमुदी। [द्विरुक्तद्वित्वामिदम् । पौनःपुन्येऽपि लोटा सह समुचित्य द्योतकतां लब्धं वा । 'कर्मव्यतिहारे सर्वनानो द्वे वाच्ये, समासवच बहुलम्' (वा ४७००)। बहुलग्रहणादन्यपरयोन समासवत् । इतरशब्दस्य तु नित्यम् । असमासवगावे पूर्वलोटो हिखौ-' इति लोट् । तस्य हि इत्यादेशः नाविकरणः । लुनीहीत्यस्य अनेन द्विवचनम् । 'यथाविध्यनुप्रयोगः पूर्वस्मिन्' इत्यनुप्रयोगः । तस्माल्लडादयः। अति. शयेन पुनर्वा लवनं लुनीहीति द्विरुक्तस्यार्थः । एककर्तृकं लवनमनुप्रयोगस्यार्थः । इतिशब्दस्त्वभेदान्वये तात्पर्य ग्राहयतीत्यादि मूल एव लकारार्थप्रकियागं स्फुटीभविष्यति । तथा च अतिशयितमेककर्तृकं लवनमिति फलितोऽर्थः । नित्येति।। 'नित्यवीप्सयोः' इति पौनःपुन्ये द्विवचने सिद्धऽपि भृशार्थे द्विवचनार्थमिदं वार्तिकमित्यर्थः। नन्वस्य भृशार्थ एव द्विवचनफलकत्वे 'भृशे च' इत्येव सेद्धे 'क्रियासमभिहारे' इति व्यर्थमित्यत आह पौनःपुन्येऽपीति । लुनीहिलुनीही यत्र पौनःपुन्ये लोटो द्विवचनस्य च समुच्चयार्थमिति यावत् । अन्यथा लोटैव पौनःपुन्यस्य द्योतितत्वात्तत्र नित्यवीप्सयोर्विचनस्य प्रवृत्तिर्न स्यादित्यर्थः । एवं च 'धातोरेकाचः-' इति पौनःपुन्ये यङन्ते पापच्यते इत्यादौ न द्विवचनमित्यन्यत्र विस्तरः। कर्मव्यतिहार इति । क्रियाविनिमयः कर्मव्यतिहारः, तस्मिन् गम्ये सर्वनानो द्वे स्तः । ते च द्विरुक्के पदे बहुलं समासवदित्यर्थः । अत्र 'बहुलम्' इति समासवदित्यत्रैवान्वेति । द्विवचनं तु नित्यमेव। अन्यपरयोरिति । अन्यशब्दपरशब्दयोरेव बहुलं समासवत्त्वम् । इतरशब्दस्य तु नित्यमेवेत्यर्थः । अत एव अन्यशब्दस्य समास्वत्त्वरहितमेव इतर. शब्दस्य तत्सहितमेवोदाहरणं भाष्ये दृश्यते । तथा 'परस्परोपादाच्च' इति वार्तिकप्रयोगात् परशब्दस्यापि समासवत्त्वाभावो गम्यत इति भावः। एवं च क्रियासमभिहारे अन्यशब्दस्य परशब्दस्य च नित्यं द्विवचनम् । द्विरुक्तयोस्तु सभासवत्त्वं बहुलम्। इतरशब्दस्य तु तदुभयमपि नित्यम् । एतत्त्रयव्यतिरिक्तसर्वनामशब्दस्य तु नेदं दिति भावः । पौनःपुन्य इति । पुनःपुनर्भवितरि वर्तमानात्पुनःपुनःशब्दाद् भावे प्रत्ययः । लोटा सह समुच्चित्येति । नन्वत्र लोटा सह समुच्चित्य यथा द्विवचनं भवति, तथा क्रियासमभिहारे यङि यडा सह समुच्चित्य द्विवचनं स्यात् पापच्यते पापच्यते, बोभूयते बोभूयते इति अत्राहुः-लोट् क्रियासनभिहारं व्यभिचरति। समुच्चयेऽपि जायमानत्वात् । ततश्च लोड्विर्वचनयोरेव तद्योतकत्वम् , न त्वेकैकस्येति युक्तं लोडन्तस्य द्विवचनम् । यङ् तु क्रियासमभिहारं न व्यभिचरतीति द्विवचनं विनव तस्य द्योतकत्वम् । तेन तदन्तस्य न द्विवचनमिति । कर्मव्यतिझर इति । क्रियाविनिमय इत्यर्थः । द्वे इति । नित्यमेवेदं द्वित्वम् , बाहुलकं तु समासवद्भावस्यैव।