________________
प्रकरणम् ४२] बालमनोरमा तत्त्वबोधिनीसहिता। [६७१ पटुसहराः, ईषल्पटुरिति यावत् । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते । शुक्लशुक्लं रूपम् । शुक्लशुक्लः पटः । 'मानुपूर्ये द्वे वाच्ये' (वा ४६६२)। मूले मूले स्थूलः । 'संभ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः' ( वा ५०५६) । सर्पः सर्पः, बुध्यस्व बुध्यस्व । सर्पः सर्पः सर्पः, बुध्यस्व बुध्यस्व बुध्यस्त्र । 'क्रियासमभिहारे च' (वा ४६६५) । लुनीहि लुनीहीत्येवायं लुनाति । 'नित्यवीप्सयोः' (सू २१४० ) इति सिद्धे भृशार्थे रिति । 'वोतो गुणवचनात्' इति ङीषभावे पुंसि च द्विवंचने रूपम् । पटुसदृश इति । इत्यर्थ इति शेषः । फलितमाह ईषत्पटुरिति । इह गुणवचनशब्दस्य गुणोपसर्जनद्रव्यवाचित्वमेवेति भ्रमं निरस्यति गुणोपसर्जनेति । शुक्लशुक्लं रूपमिति । शुक्लसदृशमित्यर्थः। ईषच्छुक्लमिति यावत् । एवं शुक्लशुक्लः पट इति बोध्यम् । आनुपूर्ण इति । अत्र वार्तिके कर्मधारयवदिति न संबध्यते, तदुदाहरणे भाष्ये सुब्लोपादर्शनादित्यभिप्रेत्योदाहरति मूले मूल इति । पूर्वपूर्वो मूलभाग उत्तरोत्तरमूलभागापेक्षया स्थूल इति यावत् । संभ्रमेणेति । वार्तिकमिदम् । संभ्रमो भयादिकृता त्वरा, तेन प्रवृत्ती गम्यमानायां यथेष्टम् इच्छानुसारेण अनेकधा शब्दः प्रयोक्तव्य इति वक्तव्यमित्यर्थः । अनेकधेत्युक्ते इति निवतेते। यथेष्टमित्युक्तेरसकृत्त्वेऽप्येकस्य प्रयोगः स्यादिति शङ्को निरस्यति न्यायसिद्ध इति । यावद्वारं प्रयोगे सति बोद्धा अर्थ प्रत्येति, तावद्वारमेव प्रयोगः । बोधात्मकफलपर्यवसायित्वाच्छन्दप्रयोगस्येत्यर्थः । एतच्च भाष्ये स्पष्टम् । अत्रापि कर्मधारयवत्त्वानतिदेशान्न सुब्लुक्, भाष्ये तथैवोदाहरणात् । क्रियासमभिहारे चेति । वार्तिकमिदम् । द्वे स्त इति शेषः । पौनःपुन्यं भृशत्वं च क्रियासमभिहारः । लोडन्तविषयमेवेदम्। 'क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः' इति सूत्रभाष्ये क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्वे भवत इति वक्तव्यमिति पाठमभिप्रेत्योदाहरति लुनीहिलुनीहीत्येवायं लुनातीति । 'लूम् छेदने' अस्मात् 'क्रियासमभिहारे लोट नीयत्वात् । शुक्लशुक्लमिति । केवलगुणवाचिन उदाहरणमिति ध्वनयति रूपमिति ।
आनुपूर्व्य इति । वीप्साभावादयमारम्भः । मूले मूल इति । अग्रेअग्रे सूक्ष्मा इत्यप्युदाहर्तव्यम् । एकस्य वस्तुनो वेणुदण्डादेरेकमेव मुख्यं मूलमग्रं च । इतरेषां भागानामापेक्षिकोऽप्रमूलव्यपदेशः । स्थौल्यसौक्ष्म्ये अपि नैकरूपे, किं तर्हि यथामूलमुपचीयते स्थौल्यम् , यथा अप्रं सौचम्यं तथा नेतरे भागा इति वीप्साया असंभवः । 'मूले मूले पथि विटपिनाम्' इत्यत्र तु वीप्सायां द्विवचनम् । एतच्च हरदत्तप्रन्ये स्पष्टम्। न्यायसिद्ध इति । यावद्भिः शब्दैः संबोध्योऽर्थमवगच्छति तावतां प्रयोकव्यत्वा