________________
६७० ] सिद्धान्तकौमुदी। [द्विरुक्तवत् । 'कर्मधारयवदुत्तरेषु-' (सू २१४६) इत्यधिकारात् । तेन पूर्वभागस्य वद्भावः 'समासस्य' (स् ३७३४ ) इत्यन्तोदात्तत्वं च । पटुपट्वी। पटुपटुः । प्रकारशब्दः सादृश्ये वर्तते व्याख्यानादित्यभिप्रत्याह सादृश्ये द्योत्य इति । गुणवचनशब्देन 'श्रा कडारात्-' इति सूत्रस्थभाष्यपरिगणिताः शब्दा गृह्यन्त इति 'वोतो गुणवचनात्' इत्यादौ प्रपञ्चितमिदम् । तेनेति । कर्मधारयवत्त्वेनेत्यर्थः । पुंवद्भाव इति । 'पुंवत्कर्मधारय-' इत्यनेनेति शेषः । पटुपट्वीति । पट्वीशब्दस्य द्विर्वचने कर्मधारयवत्त्वात् 'पुंवत्कर्मधारय-' इति पूर्वखण्डस्य पुंवत्त्वे रूपमिति भावः । यद्यपि बहुव्रीहिवत्त्वेऽपि 'स्त्रियाः पुंवत्-' इति पुंवत्त्वादिदं सिद्धम् , तथापि कारिकेत्यादिकोपधादिष्वपि पुंवत्त्वार्थ कर्मधारयवदिति वचनमिति भावः । पटुपटुब्राह्मणसदृश इत्यवगमाच्च । तथापीह विवक्षितमाह सादृश्य इति । व्याख्यानमेवात्र शरणम् । पुंवदभाव इति । 'पुंवत्कर्मधारय-' इति सूत्रात् । तच्च कोपधादिष्वपि कालककालिकेत्यादिषु प्रवर्तते । तेन बहुव्रीहिवद्भावे प्रकृते कर्मधारयवद्भावोक्तिर्व्यथेति शङ्काया निरवकाश इति बोध्यम्। पटुपटुरिति । इह द्वित्वेन जातीयरो बाधो नेष्यते पटुजातीय इति वामनः। अन्यथा ब्राह्मणजातीय इत्यादावगुणवचनेऽपि भेदरूपेऽर्थे सावकाशो जातीयर् गुणवचनेषु सादृश्यपरेण द्वित्वेन बाध्येतेति भावः । गुणवचनस्येति किम् , अनिर्माणवकः, सिंहो माणवकः । यद्यपीहाग्निसिंहशब्दाभ्यां गौण्या वृत्त्या तैक्षण्यक्रौर्यादिगुणो गम्यते, तथापि प्रकारे वर्तमानस्येत्येव सिद्धे गुणवचनग्रहणसांम
•द् मुख्यवृत्त्या गुणपराणामेव द्वित्वम् , न त्वन्येषामित्याकरः । 'नवं नवं प्रीतिरहा करोति' इत्यत्र वीप्सायां द्विवचनम् । अनेन तु द्विवचने सुब्लुक् स्यात् । 'नवनवा वनवायुभिराददे' इत्यत्र त्वनेनैव द्विवचनम्, न तु वीप्सायामिति पुंवद्भावः । कथं 'भीतभीत इव शीतमयूखः' इति भारविः । इवशब्देन सादृश्यस्योलतया इह प्रकारे द्वित्वायोगात् । सत्यम् , भीतेभ्यो भीत इति कथंचिद्याख्येयम् । तेनातिभीत इति फलितम् । 'आधिक्ये द्वे वाच्ये' इति वार्तिकेन भीतभीतादौ द्वित्वमिति दुर्घटादिभिरुक्तं समाधानं नादर्तव्यम् । तादृशस्य वार्तिकस्याप्रसिद्धत्वात् । अथ कथं 'खिन्नःखिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र। क्षीणःक्षीणः परिलघुपयः स्रोतसां चोपयुज्य' इति मेघदूतः । पदार्थभेदस्याभावेन वीप्सार्थस्यासंभवादिति चेत् । अत्राहुःएकस्यापि खेदावस्थासु क्षयावस्थासु च भेदं परिकल्प्य वीप्सा बोध्येति । अथ कथं 'मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम्' इति मेघदूतः। वीप्सार्थस्यासंभवादनेनैव द्विवंचने कृते 'मन्दमन्दमुदितः प्रययौ खम्' इतिवत्सुब्लुक् स्यादिति चेत् । सत्यम् , खतो मन्दगामिनं त्वां पवनो मन्दं नुदतीति कथंचियाख्येयम् । सिद्धस्य गतेश्चिन्त