________________
प्रकरणम् ४२] बालमनोरमा-तस्वबोधिनीसहिता। [६६६ (८-१-१०) पीडायां योत्यायां द्वे स्तो बहुव्रीहिवच । गतगतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्रावात्सुब्लुक् । गतगता । इह पुंवद्भावः । २१४६ कर्मधारयवदुत्तरेषु । (८-१-११) इह उत्तरेषु द्विवचनेषु कर्मधारयवत्कार्यम् । 'प्रयोजनं सुब्लोपवद्भावान्तोदात्तस्वानि' (वा ४६८६)।२१४७ प्रकारे गुणवचनस्य । (८-१-१२) सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच कर्मधारय. सुपो कि पुनः सर्वादिपठितैकशब्दान्ततया सर्वनामत्वात् स्मैभाव इति भावः ।
आबाधे च । आबाधः पीडा। तदाह पीडायामिति । गतगत इति । प्रियां विना काल इति शेषः । श्राबाधं दर्शयितुमाह विरहादिति । स्त्रीवियोगादित्यर्थः। वहुव्रीहिवद्भावादिति । गत इत्यस्य द्विवंचने सति बहुव्रीहिवत्त्वात् समुदायस्य प्रातिपदिकत्वेन सुपोर्चुकि समुदायात् सुबुत्पत्तिरित्यर्थः । गतगतेति । प्रियेति शेषः । इयमपि स्त्रीविरहात् पीड्यमानस्योक्तिः । एकस्या एव गमनकाः द्विः कथनात् समानाधिकरणं स्त्रीलिङ्गमुत्तरपदमिति 'स्त्रियाः पुंवत्-' इति पुंवत्त्वम् , बहुव्रीहिवत्त्वादुत्तरपदत्वस्यापि सत्त्वात् । तदाह इह पुंवद्भाव इति । कर्मधारयवदुत्तरेषु । कार्य स्यादिति शेषः । कर्मधारयवत्त्वस्य फलमाह प्रयोजनमिति । सुब्लोपादीनां प्रत्येकान्वयाभिप्रायमकवचनम् । अन्तोदात्तत्वानीति । अनुदात्तं चेत्यधिकृतमपि भाष्यप्रामाण्यान्नात्र सम्बध्यत इति भावः । प्रकारे गुणवचनस्य । निषेधकम् , न तु बहुव्रीहावित्युक्तत्वादिति । आबाधे च । इहेति । बहुव्रीहिवद्भावादित्यनुषज्यते । तथा च स्त्रियाः पुंवत्-' इति प्रवर्तते । न च द्विरुक्तस्य परमुत्तरपदं नेति वाच्यम् , बहुव्रीहिवदित्यतिदेशबलेनैव उत्तरपदत्वस्यापि लाभात् । ननु बहुव्रीहिवद्भावेनोत्तरपदत्वलाभे सति ननेत्यत्र 'नलोपो नमः' इति कस्मान्न भवति । उच्यते'नलोपो नञः' इत्यत्र उत्तरपदे इति प्रवर्तते, नन इति च कार्यिणो निदशः, तत्र साक्षाच्छिष्टेन कार्यित्वेन नो निमित्तभावो बाध्यते । यथा मद्रहृदो भद्रह्रद इति । अत्र रेफस्य 'अचो रहाभ्याम्-' इति द्वित्वप्रसङ्गे आकरे उक्तं 'नमौ रहौ कार्यिणौ किं तु निमित्तमेतौ द्विवचनस्य' इति । नन्वेवमपि 'धूधूः' 'पन्थाःपन्थाः' इत्यादी 'ऋक्पूरब्धूर-' इति समासान्तः स्यादिति चेत् । न, 'समासाच्च तद्विषयात्' इत्यतः समासादित्यनुवर्तमाने 'समासान्ताः' इति पुनः समासग्रहणं हि समासाधिकारविहितो यः समासस्तत्परिग्रहार्थम् । तेनातिदेशिके समासे समासान्तानामप्रवृत्तिरिति दिक। कर्मधारयवदुत्तरेषु । अधिकारेणैव सिद्धे 'उत्तरेषु' इति वचनं विस्पष्टार्थमिति वृत्तिः । प्रकारे गुणववनस्य । यद्यपि प्रकारशब्दो भेदे सादृश्यै च वर्तते । बहुभिः प्रकारैर्भुते, बहुभिर्भेदैविशेषैरित्यवगमात् । ब्राह्मणप्रकारोऽयं माणवकः,