________________
६६८ ]
सिद्धान्तकौमुदी ।
[ द्विरुक्त
वग्रहे विशेषः । 'न बहुव्रीहौ ' ( सू २२२ ) इत्यत्र पुनर्बहुधीहिग्रहणं मुख्य बहुव्रीहिलाभार्थम् । तेनातिदिष्टबहुव्रीहौ सर्वनामतास्स्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत् । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विग्रहे निषेधकम्, न तु बहुव्रीहावितीहातिदेशशङ्कव नास्ति । एकैकस्मै देहि । २१४५ श्रबाधे च । पूर्वस्यैवेदम्, 'नत्रैषाद्वा-' इति लिङ्गादित्युक्तत्वादिति बोध्यम् । नन् सुपोर्लुकि पूर्वखण्डस्य एकाशब्दस्य पुंवत्त्वे सत्यसति वा वृद्धौ एकैकयेति सिध्यत्येवेत्यत आह इह पूर्व . भाग इति । श्रवग्रह इति । समस्तपदम्य द्विधा करणे पूर्वखण्डः श्रवग्रहः । 'तस्य पूर्वोऽवग्रहः' इति प्रातिशाख्यम् । एकैकयत्येक एकया इतीष्यते पूर्वखण्डस्य पुंवत्त्वम् । बहुव्रीहिवत्त्वाभाव तु एकैकयेत्येका एकयेति स्यादिति भावः । तैत्तिरीयास्तु एकैकयेत्येका एकया इत्येवावगृह्णन्ति । एक समासवदित्येव सिद्धे बहुव्रीहिग्रहणं बहुव्रीहौ प्रकृत्या पूर्वपदमिति स्वरार्थम् । ननु बहुव्रीहिवत्त्वे सति 'न बहुव्रीहौ' इति सर्वनामत्वनिषेधादेकैकस्मै देहीत्यादौ कथं सर्वनामकार्यमित्यत प्राह न बहुव्रीहा वित्यत्रेति । 'विभाषा दिक्समासे बहुव्रीहौ' इत्यतो बहुव्रीहिग्रहणानुवृत्त्यैव सिद्धे 'न बहुव्रीहौ' इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । अतो बहुव्रीहिवदित्यदितिष्टबहुव्रीहौ सर्वनामत्वनिषेधो नेत्यर्थः । तदाह तेनेति । तदेवं प्राचीनोक्लं परिहारमुक्त्वा सिद्धान्तिमतेनाह वस्तुतस्त्विति । एतदिति । 'न बहुव्रीहौ ' इति सूत्रमित्यर्थः । एवं च बहुव्रीहावपि सर्वनामत्वस्य भाष्यसंमत्तया बहुव्रीहिवत्त्वातिदेशे सत्यपि सर्वनामत्वं निर्बाधमिति भावः । सूत्रमतेऽपीति । उपसर्जनत्वादेव बहुव्रीहौ सर्वनामत्वनिषेधे सिद्धे 'न बहुव्रीहौ' इति बहुव्रीह्यर्थ के अलौकिक विग्रहवाक्ये एव समासात् प्राक् सर्वनामत्वं निषिध्यत इति प्रागेवोक्तम् । तस्मादिह बहुव्रीह्यतिदेशप्रयुक्तसर्वनामकार्याभावशङ्कैव नास्तीत्यर्थः । एकैकस्मै देहीति । इह द्वयोरपि
द्विरुक्तार्थः संख्यान्तरे निराकाङ्क्ष इति प्रागेवोक्तत्वात् । पूर्वभाग इति । नतूत्तरभागेऽपि । तथाहि—द्विधात्र पुंवद्भावः 'सर्वनाम्नो वृत्तिमात्रे -' इति वा 'स्त्रियाः पुंवत् - ' इति वा । तत्राद्यः पूर्वभागस्यैव 'भत्रैषा -' इति ज्ञापकादित्युक्तम् । द्वितीयस्तु समानाधिकरणे परे विधीयते, न चोत्तरभागस्य समानाधिकरणपरत्वमस्तीति भावः । अवग्रहे विशेष इति । एकैकयेत्येकएकयेति भवतीत्यर्थः । एकैकस्मै इति । ननु सुब्लोपपुंवद्भावाविव बहुव्रीहौ सर्वनामसंज्ञाभावोऽपि दृष्ट इत्ययमपि बहु हिवद्भावेनातिदिश्यताम् । तथा च स्मायादेशोऽत्र दुर्लभ इति चेत् । अत्राहुः — मुब्लोपपुंवद्भावाविव सर्वनामसंज्ञाभावः शास्त्रेण न दृष्टः । किं तु बहुव्रीहे गौणत्वात्सर्ववाचकत्वं न संभवतीति तदभावो दृष्ट इति नायमतिदिश्यते । 'न बहुव्रीहौ' इति शास्त्रं त्वलौकिकवाक्ये