SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ४२] बालमनोरमा-तत्त्वबोधिनीसहिता। [६६७ सौन्दर्यम् । संमतौ-देव देव वन्योऽसि। कोपे-दुर्विनीत दुर्विनीत इदानीं ज्ञास्यसि। कुत्सने-धानुष्क धानुष्क वृथा ते धनुः । भर्सने-चोर चोर घातयिष्यामि त्वाम् । २१४४ एकं बहुव्रीहिवत् । (८-१-६) द्विरुक्त एकशब्दो बहुव्रीहिवत्स्यात् । तेन सुब्लोपपुंवद्भावी। एकैकमक्षरम् । इह द्वयोरपि सुपोलुंकि कृते बहुव्रीहिवना. वादेव प्रातिपदिकत्वात्समुदायात्सुप् । एकैकया पाहुत्या। इह पूर्वभागे पुंवद्रावाद. स्पष्टम् । सुन्दरेति । सौन्दर्यमसमानस्येदं वाक्यम् । देवेति । तव वन्दनं संमतमित्यर्थः । दुर्विनीतेति। क्रोधाविष्टस्य वाक्यम् । शास्यसीति । दुर्विनयस्य फलमिति शेषः । धानुष्केति । युद्धासमर्थ प्रति निन्देयम् । चोरेति । चोरं प्रति अवाच्यवादोऽयम् । एकं बहुव्रीहिवत् । द्विरुक्त इति । द्विर्वचनं प्राप्त इत्यर्थः । एतच्च प्रकरणाल्लभ्यते, 'वीप्सामात्रविषयमिदम्' इति भाष्याच्च । तेनेति । बहुव्रीहिवत्त्वेन सुब्लोपपुंवद्भावौ सिध्यत इत्यर्थः। तत्र सुब्लोपमुदाहरति एकैकमिति । इहेति । एकैकमित्यत्र एकमित्यस्य द्विवंचने सति, एकमेकमिति स्थिते सुपो लुकि, समुदायात् सुबित्यन्वयः। ननु 'यत्र संघाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव' इति नियमेन समुदायस्य प्रातिपदिकत्वाभावात् कथमिह सुपो लुक्, कथं वा समुदायात् सुबित्यत आह बहुव्रीहिवद्भावादेव प्रातिपदिकत्वादिति । एतच्च सुपोलकीत्यत्र समुदायात्सुबित्यत्र च मध्यमणिन्यायेनान्वेति । 'प्रथ पुंवत्त्वेऽप्युदाहरति एकैकया आहुत्येति । एकयेत्यस्य द्विवंचने सति एकया एकयेति स्थिते, बहुव्रीहिवत्त्वेन समुदायस्य प्रातिपदिकत्वात्सुपोलुंकि, पूर्वखण्डस्य पुंवत्त्वे कृते, समुदायात्पुनस्तृतीयोत्पत्ती, एकैकयेति रूपम् । बहुव्रीहिवत्त्वाभावे तु इह समुदायस्य प्रातिपदिकत्वाभावात् सुपोर्लुक् पूर्वखण्डस्य पुंवत्त्वं च न स्यात् , उत्तरपदपरकत्वाभावात् समासचरमावयवस्यैव उत्तरपदत्वादिति भावः । एकैकामित्यत्र उत्तरखण्डस्य 'सर्वनाम्नो वृत्तिमात्रे-' इति पुंवत्त्वं बहुव्रीहिवत्त्वे सत्यपि न प्रवृत्तिमर्हति, नन्वत्र कोपासूयाभ्यां पृथक्कुत्सनभर्सनग्रहणमपार्थकम् । न ह्यसूयां विना कुत्सयते, न वा अकुपितो भर्त्सयत इति चेत् । अत्राहुः-गुरवो हि हितैषित्वादकुपिता अपि भर्त्सनं कुर्वते, विनाप्यसूर्या कुत्सां कुर्वन्तीति पृथक्तया निर्देशः सूत्रकारेण कृतः। 'सामृतैः पाणिभिर्मन्ति गुरवो न विषोक्षितैः । लालनायिणो दोषास्ताडनाश्रयिणो गुणाः' इति । एकं बहुव्रीहिवत् । द्वे इत्यनुवर्तते । तच्चानुवाद्यसमर्पकम् , तदाह द्विरुक्त इति । तेनेति । यद्यप्येतो बहुव्रीही विशिष्य न विहिती, तथापि तत्र दृष्टावित्येतावतैवातिदिश्यते इति भावः। सुब्लोपपुंवद्भावाविति । पूर्वपदप्रकृतिस्वरश्च बोध्यः । समुदायात्सुबिति। तचैकवचनमेवेति अन्तरजकत्वसंख्यावरुद्धो
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy