________________
६६६ ] सिद्धान्तकौमुदी।
[द्विरुक्त (८-१-५) परि परि वङ्गेभ्यो वृष्टो देवः। वङ्गान्परिहृत्येत्यर्थः । 'परेर्वर्जने वावचनम्' । ( वा ४६८३) परि वङ्गेभ्यः । २१४२ उपर्यध्यधसः सामीप्ये। (८-१-७) उपर्युपरि ग्रामम् । ग्रामस्योपरिष्टात्समीपे देशे इत्यर्थः। अध्यधि सुखम् । सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकम् । लोकस्याधस्तास्समीपे देशे इत्यर्थः । २१४३ वाक्यादेरामन्त्रितस्यासूयासंमतिकोपकुत्सनभर्त्सनेषु । (८-१-८) प्रसूयायाम्-सुन्दर सुन्दर वृथा ते स्यात् । कृते तु सर्वग्रहण पदावयवत्वानाक्रान्तस्यैव कृत्स्नावयवोपेतस्य पदस्य द्वित्वमित्यर्थलाभान्न दोषः । 'पदस्य' इति किम् ? वाक्यस्य मा भून । परेर्वर्जने । वर्जने वर्तमानस्य परीत्यस्य द्वे स्त इत्यर्थः। परि परि वनेभ्यो वृष्ट इति । पर्जन्य इति शेषः । 'अपपरी वर्जने' इति परिः कर्मप्रवचनीयः । 'पञ्चम्यपापरिभिः' इति पञ्चमी । परि हरेः संसार इत्यत्र तु, 'परेरसमासे इति वक्तव्यम्' इति वार्तिकाद् न द्विवचनम् । उपर्यध्यधसः। उपरि, अधि, अधः एतेषां द्वे स्तः सामीप्ये गम्य इत्यर्थः । सामीप्यं च उपर्युपरि ग्राममित्यत्र अधोऽधो लोकमित्यत्र च देशतः, अध्यधि सुखमित्यत्र तु कालत इति ज्ञेयम् । वाक्यादेः। द्वे स्त इति शेषः । यद्यपि कोपाद्भर्त्सनम् , असूयया कुत्सनम् , तथापि विनापि कोपासूये भर्त्सनकुत्सनयोः शिष्यादौ संभवात्पृथग् ग्रहणम् इति भाष्ये निराकाङ्क्ष एव । न हि वस्तुगत्या बहुत्वमस्तीत्येतावतैव तस्य शाब्दबोध पापादरितुं शक्यते । असत्त्वार्थकेष्वपि तदापत्तेः । न हि शयनबाहुल्याभिप्रायेण 'देवदत्तेन शय्यते' इति भावे कश्चित्प्रयुङ्क्ते। तत्रायोग्यं तदिति चेत् समं प्रकृतेऽपि । अत्र च लिङ्गम् 'एकैकस्य प्राचाम्' इति निर्देश इति । परेर्वर्जने । अत्र वार्तिकं 'परेरसमासे' । नेह–परित्रिगतं वृष्टो देवः । 'वेति च वक्तव्यम्' तथा च अप हरेः परि हरेः संसार इति कारकेषूदाहृतम् । परिपरि वङ्गेभ्य इति । 'अपपरी वर्जने' इति कर्मप्रवचनीयसंज्ञायां 'पञ्चम्यपापरिभिः' इति पञ्चमी । उपर्यध्य । सामीप्यं प्रत्यासत्तिः, तच्च कालकृतं देशकृतं वा । अध्यधि सुखमिति । कालकृतस्योदाहरणमिदम् । सामीप्य इति किम् , उपरि चन्द्रमाः। उपरि शिरसो घटं धारयतीत्यत्र तु वस्तुतो विद्यमानमपि सामीप्यं न विवक्षितम् , किं त्वौत्तराधर्यमेव केवलं विवक्षितमिति द्विवचनं न भवति । विवक्षा हि शब्दव्युत्पत्तेः प्रधानं कारणम् । अत्र च 'उपज्ञोक्रमं तदाद्याचिख्यासायाम्' इति सन्नन्तप्रयोगो ज्ञापक इत्याहुः । वाक्यादेः । सुन्दरसुन्दरेत्यादि । 'खरितमानेडितऽसूयासंमतिकोपकुत्सनभर्त्सनेषु' 'आमेडितं भर्त्सने' इति सूत्राभ्यां यथायथं प्राप्तः प्लुतो वैकल्पिकत्वान्नेह कृतः । उक्तं हि प्राक् ‘सर्वः प्लुतो वैकल्पिकः' इति ।