________________
प्रकरणम् ४२] बालमनोरमा तत्त्वबोधिनीसहिता। [६६५ वीप्सायाम्-वृक्षं वृक्ष सिञ्चति । ग्रामो ग्रामो रमणीयः। २१४१ परेवर्जने त्यर्थः । तथैवोदाहरति पचति पचति, भुक्त्वा भुक्त्वेति । वीप्सायामिति । उदाह्रियत इति शेषः। वृक्षं वृक्षमिति । कृत्स्नं वृक्षमित्यर्थः । अत्र प्रकृततद्वाटिकागतवृक्षकात्स्न्यै गम्यते । जगतीतलस्थितकृत्स्नवृक्षसचनस्य अशक्यत्वात् । सर्वशब्दस्य काय॑वाचित्वेऽपि न द्वित्वमित्यनुपदमेव 'यथास्वे-' इत्यत्र वक्ष्यते । वृक्षं वृक्षमित्यत्र कात्यावगमेऽपि प्रत्येकनिष्ठमेकत्वमेव भासते, नतु बहुत्वम् । अतो न बहुवचनम् । 'एकैकस्य प्राचाम्' इति लिङ्गाच्च । सर्वस्येत्यभावे वृक्षाभ्यामित्यादौ स्वादिषु-' इति पदत्वमवलम्ब्य प्रकृतिभागमात्रस्य द्विवचनं परिपूर्यत इति भूयते पक्केल्यादिपदानां द्वित्वं स्यादेवेति चेत् तर्हि तत्रैव धातुमात्रस्य द्वित्वं केन वार्यताम् । किं च तद्वदेव कर्तृकर्मलकारस्थलेऽपि धातुमात्रद्वित्वं दुर्वारमिति पदस्थेत्यपकर्षणमावश्यकमेवेति दिक् । वीप्सायामिति । व्याप्तुमिच्छा वीप्सा । व्याप्तिप्रतिपिपादयिषति यावत् । सा च प्रयोक्तुर्धर्म आबाधवत् । गतगत इत्युक्त प्रियस्य चिरगमनादिना पीडितो वाक्यं प्रयुङ्क्ते इति यथा प्रतीयते तथा वृक्षवृक्ष सिञ्चतीत्यादावपि व्याप्तिं बुबोधयिषोरिदं वाक्यमित्यवगमात् । शाब्दबोधविषयस्तु व्याप्तिरेव । तथा च 'नित्यव्याप्त्योः' इत्येव सूत्रयितुं शक्यम् । व्याप्तिरिह कात्य॑म् , तच्चाधिकारिकम् । 'सर्वे ब्राह्मणा आमन्त्रिताः' इत्यादौ यथा । 'न हि जगतीतले निद्यमाना ब्राह्मणाः सर्वेऽपि केनचिदामन्त्रयितुं शक्यन्ते' इति खग्रामस्थखजातीयब्राह्मणपरतया यत्र संकोचो यद्यभ्युपेयते तयत्रापि सकलवृक्षसेचनसामर्थ्य कस्यापि मनुष्यस्य नास्तीति यत्र वाटिकादौ वृक्षसेचनार्थमधिकारस्तद्वाटिकास्थवृक्षाणामेव कात्स्य वृक्षं वृक्षं सिञ्चतीस्यादौ गम्यते इत्यभ्युपेयम् । यत्र तु संकोचे कारणं नास्ति, तत्रासंकोच इष्ट एव 'जातोजातो निधनमुपैति' इति यथा । न चैवं वृक्षं वृक्षमित्यादौ बहुवचनप्रसङ्गः, बहूनां भानेऽपि बहुत्वसंख्यायास्तत्राभानात् । प्रत्येकनिष्ठमेकत्वमेव हि तत्र भासत इत्यादि मनोरमायां स्थितम् । वृक्षं वृक्षमिति समुदायस्य तु प्रातिपदिकत्वाभावाद्बहुवचनस्य प्रसङ्ग एव नास्ति । न च 'अर्थवदधातुः-' इत्यनेन प्रातिपदिकत्वं शङ्कयम् , 'यत्र संघात पूर्वो भागः पदं तस्य चद्भवति समासस्यैव' इति नियमात् । न चाष्टमिकं द्विवचनमादेशरूपमिति संघातो न भवतीत्यपि शङ्कयम् , द्वे इति वचनादेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयते इति प्रागुतत्वात् । नन्वेवमपि 'सरित्सरित्' 'योषायोषा' इत्यादी बहुवचनोत्पत्तिर्दुरिव । सरिदिति स्थानिनः प्रातिपदिकत्वसम्भवेन तदादेशस्यापि सरित्सरिदित्यादेः स्थानिवद्भावेन प्रातिपदिकत्वसम्भवादिति चेत् , अत्राहुः-अन्तरजैकत्वसंख्यावरुद्धो द्विरुक्कार्थः संख्यान्तरे