________________
६६४ ]
सिद्धान्तकौमुदी। [ द्विरुक्त भाभीषण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचति पचति । भुक्त्वा भुक्स्वा ।
आदेशौ स्त इत्यर्थः । तत्रावयवयोः पदत्वं स्वतःसिद्धम् । समुदायस्य तु पदद्वयात्मकस्य स्थानिवत्त्वात् सुबन्तत्वम् । तेन अपचन्नपचन्नित्यत्र मुट् , वृक्षान्वृक्षानित्यत्र 'पदान्तस्य' इति णत्वनिषेधः। अग्रेऽग्रे इत्यत्र 'एडः पदान्तात्-' इति पूर्वरूपं चेत्यादीन्यवयवानां पदकार्याणि सिध्यन्ति । पुनः पुनरिति समुदायस्य स्थानिवत्त्वेन सुबन्तत्वाद् भावे यत्रि, भवे ठमि च पौनःपुन्यम् , पौनःपुनिक इति च सिध्यति । द्वे उच्चारणे स्त इत्याश्रयणे तु सर्व पदं द्विरुच्चारयेदित्यर्थः फलितः स्यात् । ततश्च पुनरित्येकस्यैव द्विरुच्चार्यमाणस्य पुनः पुनरित्यादेशत्वाभावेन स्थानिवत्त्वाप्रसक्त्या सुबन्तत्वविरहात् तद्धितोत्पत्तिर्न स्यात् । तस्मादादेशपक्ष एव श्रेयानित्यास्तां तावत् । भाभीदायं तिङन्तेष्विति । भाभीक्ष्ण्यं पौनःपुन्यम् । तच्चेह प्रधानभूतकियाया एव । क्रियाप्राधान्यं चाख्यातेष्वस्तीति 'प्रशंसायां रूपप्' इति सूत्रे भाष्ये स्पष्टम् । अव्ययकृत्स्वपि क्त्वातुमुन्नादिषु क्रियाप्राधान्यम् , 'अव्ययकृतो भावे' इत्युक्तेः । तथा च तिङन्तेषु अव्ययसंज्ञककृदन्तेषु च पौनःपुन्यनिमित्तकद्विवचनं नान्यत्रे. कत्वात्पौनःपुन्यमित्यादि सिध्यत्येव । द्विःप्रयोगपक्षे त्वन्तरङ्गत्वादव्ययात्सुपो लुकि द्वित्वं प्रवर्तत इति समुदायस्य सुबन्तत्वाभावात् प्रातिपदिकत्वाभावाच्च यो न भवतः। न च 'अर्थवदधातुः-' इत्यादिना समुदायस्य प्रातिपदिकत्वे सोरुत्पत्तौ तस्य लुकि च सुबन्तत्वं प्रातिपदिकत्वं च संभवत्येवेति वाच्यम् , 'यत्र संघात पूर्वी भागः पदं तस्य चेद्भवति समासस्यैव' इति नियमेन प्रीतिपदिकत्वस्यासंभवेन सुवन्तत्वस्याप्य सम्भवात् । न च द्विःप्रयोगपक्ष स एव धातुः प्रत्ययश्च द्विः पठ्यते इति समुदायस्यापि पदसंज्ञा प्रवर्तते इत्यधुनैवोकत्वात्पुनःपुनरिति समुदायस्य सुबन्तत्वमस्त्येवेति शङ्कयम् अन्तरङ्गत्वात्सोलुकि प्रकृतिभागस्य द्विवचने सति यस्मात्प्रत्ययो विहितस्तदादि तदन्तमिति विधीयमानायाः पदसंज्ञायाः समुदायस्य दुर्लभत्वात् । ततश्चैकपद्याभावे 'पुनःपुनर्जायमाना पुराणी' इत्यादाववग्रहोऽपि न सिध्येदिति । अाभीदण्यमिति । तद्धि क्रियानिष्ठधर्मः। तेन तद्दयोतनार्थ द्वित्वं क्रियाप्रधानानामेव न्याय्यम् । क्रियाप्राधान्यं चाख्यातेऽस्ति, कृद्विशेष च, 'अव्ययकृतो भावे' इति वक्ष्यमाणत्वादिति भावः । केचित्तु क्रियाप्रधानानामेव द्वित्वे परिगृहीतसाधनाया एव क्रियाया व्यवहारोपयोगित्वात्तदभिधानाच धातुमात्रस्य द्वित्वं न भवति किंतु तादृशक्रियाभिधायिनः पदस्यैव स्यादिति पदस्यापकर्षणाभावेऽपि न क्षतिरित्याहुः । तचिन्त्यम् । उक्तरीत्या नानाकारकविशिष्टक्रियासमर्पकस्य वाक्यस्यैव द्वित्वापत्तेः । किं च भावार्थकलकारान्तानामव्ययकृतां व भवदुक्तरीत्या द्वित्वं न स्यात् । ननु तत्र नित्यतावगत्यनन्तरं पदान्तरैः साधनाकाक्षा