________________
प्रकरणम् ४२] बालमनोरमा-तत्त्वबोधिनीसहिता। [६६३ वीप्सयोः। (--१-४) भाभीचण्ये वीप्सायां च द्योत्ये पदस्य द्विवचनं स्यात् । स्यन्त इति शेषः । नित्यवीप्सयोः। नित्यशब्देन नित्यत्वं विवक्षितम् । तच्च आभीदण्यमिति भाष्यम् । व्याप्तुमिच्छा वीप्सा, व्याप्तिप्रतिपादनेच्छा, सा च प्रयोक्तृधर्मः । व्याप्तिरेव तु शाब्दबोधविषय इति भाष्यस्वरसः । तथा च नित्यव्याप्योरित्येव सुवचम् । व्याप्तिश्च कात्स्न्येन संबन्धः, उपसर्गबलात् । पदस्येत्यधिकरिष्यमाणमिहापकृष्यते । सर्वस्येति स्थानषष्ठी। द्वे इति त्वादेशसमर्पकम् । तस्य च शब्दरूपे इति विशेष्यमल्लिभ्यते. शब्दानुशासनप्रस्तावात् । ते च शब्दरूपे स्वरूपतः अर्थतश्चान्तरतमे पदे इति स्थानऽन्तरतमपरिभाषया लभ्यते। ततश्च पौनःपुन्ये कात्स्न्ये च गम्ये कृत्स्नावयवविशिष्टस्य पदस्यार्थतश्च शब्दतश्चान्तरतमे द्वे पदे भवत इति फलितम् । तदभिप्रेत्याह आभीदण्ये वीप्सायां च द्योत्य इति । द्योत्यं च द्योत्या च द्योत्यम् । तस्मिन्नित्यर्थः । 'नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम्' इति नपुंसकैकशेष एकत्वं च । नित्यवीप्से च प्रकृतिगम्ये । द्विर्वचनं तु द्योतकम् । सत्यपि प्रकृतेर्द्वित्वे द्विरुक्तयोः प्रकृत्यनतिरेकादिति बोध्यम् । द्विर्वचनं स्यादिति । द्वे पदे समुदायस्य सा न सिध्यति । ततश्च देवदत्तः पचतिपचतीत्यादौ 'तिङतिङः' इति सर्वस्य पदस्य निघातो न सिध्यतीति चेत् । अत्राहुः-पचतिपचतीत्यादौ हि स एव धातुः प्रत्ययश्चात्र द्विः पठ्यते । ततश्च यो यस्मात् प्रत्ययो विहितस्तदादितदन्तमिति 'वधीयमाना पदसंज्ञा समुदायस्यापि प्रवर्तते । तेनावग्रहादिः सिध्यतीति । नित्यवीप्सयोः । नित्यमिह पौनःपुन्यमित्याह । आभीक्ष्ण्य इति । द्योत्य इति । 'नपुंसकमनपुंसकेन-' इत्येकशेषः, एकवद्भावश्च बोध्यः। पदस्येति । तेन नित्यताया विधीयमानं द्विवचनं धातुमात्रस्य न भवति । किं च क्रियासमभिहारे धातोर्विहितो यङन्तरङ्गः, पदस्योच्यमानं द्विवचनं तु बहिरङ्गमिति यऊ न बाधते । अन्यथा हि पौनःपुन्यं भृशार्थश्च क्रियासमभिहारे इति भृशार्थे सावकाशोऽयं यङ् पौनःपुन्ये परेण द्विवचनेन बाध्येत । न च पदस्य द्विवचनाभ्युपगमे सगतिकस्य प्रपचति प्रपठतीत्यादेविचनं न स्यादिति वाच्यम् , वार्तिककारवचनात्तत्सिद्धेः। अत्र वदन्ति-सगति. कस्य द्वित्वे ऐकपद्यं नास्त्येव, स्थानिनः पदत्वाभावन आदेशेऽपि तस्य दौर्लभ्यात् । द्विःप्रयोगपक्षे तु प्रथमगति विहायावशिष्टस्य समुदायस्य पदत्वं प्राप्तं तस्मिन् सत्यपि न क्षतिः । वस्तुतस्त्विह स्थान द्विवचनपक्ष एव मुख्यः । स्थानिनः सुबन्तत्वेनादेशस्यापि सुबन्तत्वात्सुबन्तात्तद्धित इति पक्षे समुदायात् ष्यञ्ठओः संभवेन पौनःपुन्यं पौनःपुनिक इति रूपसिद्धेः । 'प्रातिपदिकात्तद्धितः' इति पक्षाभ्युपगमेऽपि भ्रूयमाणप्रत्ययान्तस्यैव प्रातिपदिकत्वनिषेधात्पुनरित्यस्यैव प्रातिपदिकत्वेनादेशस्यापि प्रातिपदि