________________
६६२ ] सिद्धान्तकौमुदी।
[द्विरुक्तअथ द्विरुक्तप्रकरणम् । ४२ । २१३६ सर्वस्य द्वे। (८-१-१) इत्यधिकृत्य । २१४० नित्यः अथ द्विरुक्तप्रकरणम् । सर्वस्य द्वे। इत्यधिकृत्येति । द्विवचनविधयोऽनुकं
सर्वस्य द्वे । सर्वशब्दस्य द्वे भवत इति विधिस्तु न शङ्कयः । किंतु 'नित्यवीप्सयोः' इत्येवमादीनां विधेयकार्यिणोरनिर्देशेन साकाङ्क्षवात्स्वरितत्वाच्चाधिकारोऽयं तदाह इत्यधिकृत्येति । एतदर्थरूपमधिकृत्येत्यर्थः । स्वरूपग्रहणं तु न भवति 'नामेडितस्यान्त्यस्य तु वा' इति लिङ्गात् स्वरूपग्रहणे हि सति द्विरुक्कसर्वशब्दस्यैव परमानेडितं स्यात् , न तु द्विरुक्तस्याव्यक्तानुकरणशब्दस्य परमिति 'नानेडितस्य-' इति पररूपनिषेधोऽन्त्यस्य तकारस्य विकल्पविधिश्च कथं संगच्छेत । ननु 'नित्यवीप्सयोः' इत्यादौ 'पदस्य' इति वक्ष्यमाणमपकृष्य पदस्यैव द्वित्वं विधीयत इति किमनेन सर्वस्येति ग्रहणेनेति चेत् । अत्राहुः-'स्वादिषु-' इति पदसंज्ञामादाय वृक्षाभ्यामित्यादौ प्रकृतिभागमात्रस्य द्विवेचनं स्यात् । कृते तु 'सर्वस्य' इति ग्रहणे 'सर्वशब्दोऽवयवकात्स्न्ये वर्तते' इति 'सर्वावयवोपेतस्य द्वित्वम् , न तु कश्चिदवयवो वय॑ते' इत्यर्थलाभादिष्टसिद्धिरिति । इह 'द्वे' इत्यस्य संख्येयापेक्षायां शब्दरूपे गृह्येते, शब्दानुशासनप्रस्तावात् । 'सर्वस्य' इति स्थानषष्ठी । सोऽयं स्थानेद्विवचनपक्षः। यदि तु उच्चारणे संख्येये, तदा स्थान्यादेशभावो न संभवति, निवृत्तिधर्मा हि स्थानी भवति, सर्व चेद् निवृत्तं कस्योचारणं स्यात् , अतः 'सर्वस्य' इत्यध्याहृतोचारणशब्दापेक्षया 'कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । 'सर्व द्विरुच्चारयेत्' इति फलितोऽर्थः । सोऽयं 'द्विःप्रयोगो द्विवचनम्' इति पक्षः । ननु आद्यपक्षे स्थानिवद्भावेन समुदायस्यैव पदत्वं स्यात् , न त्ववयवयोस्ततश्च पदकार्याणि न स्युः । न चेष्टापत्तिः । 'अपचन्नपचन्' इत्यत्र ङमुट्, 'वृक्षान् वृक्षान्' इत्यत्र 'पदान्तस्य' इति णत्वनिषेधः, 'अग्रेऽग्रे' इत्यत्र 'एडः पदान्तात्-' इति पूर्वरूपत्वं च न सिध्येत् । किं चापदान्तत्वप्रयुक्तकार्याणि स्युः । तद्यथा 'पयः पयः' इत्यत्र 'सोपदादौ' इति सत्वं स्यात् , 'पपीः पपीः' इत्यत्र 'इणः षः' इति षत्वं स्यात् । 'पाशकल्पककाम्येषु-' इति वृत्तिग्रन्थमवष्टभ्य कथंचित्सत्वषत्वपरिहारेऽपि 'अनीताश्नीत' इत्यत्र 'अतो गुणे' इति पररूपं स्यादिति चेत् । अत्राहुः-यदि प्रत्यस्तमितावयवभेदः समुदाय एक एवादेशः स्याद् द्वे इति द्विवचनमनुपपमं स्यात्, अतो वे इति वचनादेकस्य पदस्य स्थान द्वे पदे समुदिते युगपदादेशत्वेन विधीयेते तत्र स्थानिवद्भावेन समुदायस्य पदत्वं स्वत एव चावयवयो. रपीति न कश्चिद्दोष इति । स्यादेतत्-द्विःप्रयोगपक्षे प्रत्येकं पदसंज्ञायां सिद्धायामपि