________________
प्रकरणम् २८ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४३६
1
( ४-३-१२४ ) हालिकम् । सैरिकम् । १५०५ द्वन्द्वाद् वुन्वैर मैथुनिकयोः । (४-३-१२५) काकोलूकिका | कुसकुशिकिका । "वैरे देवासुरादिभ्यः प्रतिषेधः ' ( वा २११४ ) । वैवासुरम् । १५०६ गोत्रचरणाद् वुञ् । (४-३-१२६ ) औपगवकम् | 'चरणाद्धर्मान्नाय्योरिति वक्तव्यम्' ( वा २११३ ) । काठकम् । १५०७ सङ्घाङ्कलक्षणेष्वयञिञामण । ( ४-३ - १२७ ) घोषग्रहणमपि अध्वर्योरिदम्, परिषद इदमिति विग्रहः । हलसीराट्ठक् । तस्येदमित्येव । हालिकम् । सैरिकमिति । हलस्येदम्, सीरस्येदमिति विग्रहः । द्वन्द्वाद् वुन् । वैरे मैथुनिकायां च इदन्त्वेन विवक्षिते द्वन्द्वात् षष्ठयन्ताद् वुन् स्यादित्यर्थः । काकोलूकिकेति । काकोलूकस्य वैरमित्यर्थः । वुनि स्त्रीत्वं लोकात् । कुत्स - कुशिकिकेति । कुत्सकुशिकयोर्विवाह इत्यर्थः, वुनि स्त्रीत्वं लोकात् । मिथुनं दम्पती । तस्य कर्म मैथुनिका । मनोज्ञादित्वाद् वुञ् । स्त्रीत्वं लोकात् । वैरे देवासुरेति । वार्तिकमिदम् । दैवासुरमिति । देवासुरयोर्वैरमित्यर्थः । वनभावे अण् । मैथुनकायां तु देवासुरिकेत्येव । ' द्वन्द्वे देवासुर -' इति त्वपपाठः, अत्र भाष्ये वैर इत्येव वार्तिकपाठात् । ‘शिशुक्रन्द -' इति सूत्रभाष्ये तु 'द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः' इति पठितम्, दैवासुरम् राक्षोऽसुरमित्युदाहृतं च । देवासुराद्यधिकृत्य कृतमाख्यानमित्यर्थः । गोत्रचरणाद्वुञ् । गोत्रप्रत्ययान्तात् शाखाध्येतृवाचिनश्च ष्टतादिदमित्यर्थे, वुञित्यर्थः । प्रवराध्यायप्रसिद्धमिह गोत्रमित्यभिप्रेत्योदाहरतिऔपगवकमिति । श्रौपगवस्येदमित्यर्थः । वस्तुतस्तु श्रौपगवः प्रवरसूत्रेषु न दृष्टः । ग्लौचुकायनकमिति वृत्त्यादौ उदाहृतम् । चरणादिति । चरणाद्यो वुञ् विहितः स धर्मे आम्नाये च वाच्ये भवति, नान्यत्रेत्यर्थः । काठकमिति । कठेन प्रोक्लमधीयते कठाः, तेषां धर्म आम्नायो वेत्यर्थः श्राम्नायो वेदाभ्यासः । सङ्घाङ्क । ङ्गमित्यर्थः । पत्त्राध्वर्यु । प्रणोऽपवादः । वार्तिकमाह - पत्त्राद्वाह्य इति । इह पत्त्रेत्यर्थग्रहणे, इतरयोस्तु स्वरूपग्रहणे व्याख्यानमेव शरणम् । द्वन्द्वाद् वुन् । अणोऽपवादः । छं तु परत्वाद्वाधते । काकोलूकिकेति । काकोलूकस्य वैरमित्यर्थः । वुन्नन्तं स्त्रियाम् । 'वैर मैथुनिकादिवुन्' इति स्त्र्यधिकारे श्रमरः । कुत्सकुशिकिति । कुत्कुशिकयोमैथुनिका विवाहरूपः सम्बन्ध इत्यर्थः । मिथुनं हि दम्पती तस्य कर्म क्रियानिष्पादनम्, मनोज्ञादित्वाद् वुञ् । वुमन्तं चेदं स्त्रियाम् स्वभावात् । अत्र वदन्ति - कुत्साश्च कुशिकाश्च कुत्सकुशिकास्तेषां मैथुनिकेत्यपि विग्रहः । इह कुत्सश्च कुशिका चेति द्वयोरेव मैथुनिकायां वुनिति नाग्रहः कार्यः । 'यूनि लुक्' इति सूत्रे कैटेन श्रत्रिभरद्वाजिकेत्यादिकं प्रसङ्गादुदाहृत्य बहुवचनान्तद्वन्द्वाद् वुञो व्याख्या
"
―――