________________
४४० ]
सिद्धान्तकौमुदी ।
[तद्धितेषु शैषिक
कर्तव्यम्' ( वा २११५ ) । श्रञ् । बैदः, सङ्घोऽङ्को घोषो वा । बैदं लक्षणम् । बञ्-गार्गः, गार्गम् । इञ् - दात्तः, दाक्षम् । परम्परासम्बन्धोऽङ्कः । साक्षात्तु लक्षणम् । १५०८ शाकलाद्वा । ( ४-३ - १२८ ) श्रवोक्ते । पत्ते चरणस्वाद् वुञ् । शकलेन प्रोकमधीयते शाकलाः, तेषां सङ्घोऽङ्को घोषो वा शाकलः, शाकलकः । लक्षणे क्रीबता । १५०६ छन्दोगौक्थिकया शिकववृचनटाञ्ञ्यः । (४-३-१२६ ) छन्दोगानां धर्म आम्नायो व छान्दोग्यम् । चक्थिक्यम् । याज्ञिक्यम् । बाह्वृच्यम् । नाट्यम् । 'चरणाद्धर्नानाययोः' ( वा २११३ ) इत्युक्तम् । तत्साहचर्यानटशब्दादपि तयोरेव । १५१० न दण्डमाअञन्तात्, यजन्तात्, इलन्ताच्च सङ्के अङ्के लक्षणे च इदन्त्वेन विवक्षिते अणित्यर्थः । छस्यापवादः । घोषेति । 'सङ्घाङ्कलक्षणघोषेषु' इति सूत्रं कर्तव्य मेत्यर्थः । तथा च तिस्रः प्रकृतयः प्रत्ययार्थाश्चत्वार इति न यथासंख्यम् । गार्ग इति । सङ्घः अङ्को घोषो वेति शेषः । गार्गमिति । लक्षणमिति शेषः । एवं दाक्षो दाक्षमित्यत्रापि । नन्वङ्कलक्षणशब्दयोः पर्यायत्वात् पृथग्ग्रहणं व्यर्थमित्यत आह-- परमपरेति । यथा गवादिनिष्ठस्तप्तमुद्राविशेषः अङ्कः । तस्य हि गोद्वारा स्वामिसम्बन्धः । साक्षादिति । विद्याविशेषस्तु देवदत्ते साक्षाद्विद्यमानत्वात्तस्य लक्षणमित्यर्थः । बैदी विद्या । 'घोष आभीरपल्ली स्यात्' इत्यमरः । शाकलाद्वा । शकलेनेति । शकलशब्दात्प्रोक्लाणन्तादध्ये तृप्रत्ययस्य लुकि शाकलशब्दाद् 'गोत्रचरणात् -' इति धर्माम्नाययोर्बुञोऽपवादः अण् । तदभावे वुञ् । छन्दोगौक्थिक । संघादयो निवृत्ताः । छन्दोगादीनां चरणत्वाद् धर्माम्नाययोरिति संबध्यते । छन्दोग, औक्थिक, याज्ञिक, बहूवच, नट एभ्यो धर्मे आम्नाये च इदंत्वेन विवक्षिते यः स्यादित्यर्थः । ननु नटस्य अचरणत्वात्तत्र धर्माम्नाययोः कथमन्वय इत्याशङ्कते - चरणाद्ध
तत्वादिति । सङ्घाङ्क । पूर्वस्य वुञोपवादः । घोषग्रहणमिति । एवं च प्रकृतयस्तिस्रः प्रत्यार्थविशेषणानि चत्वारीति वैषम्याद्यथासंख्यमपि न प्रवर्तने । गार्ग इति । 'आपत्यस्य -' इति यलोपः । यद्यप्यङ्कलक्षणयोः पर्यायत्वं प्रसिद्धं 'कलङ्काङ्कौ लाञ्छनं चचिह्नं लक्ष्म च लक्षणम्' इत्यमरः, तथापि पृथग्ग्रहणसामथ्यादिह विशेषपरतेत्याह — परम्परासम्बन्ध इति । यथा गवादिनिष्ठः स्वामिना द्वारा सम्बन्धः । साक्षादिति । यथा बिदानां विद्या । घोष आमीरस्थानम् । णित्त्वं ङीबर्थं पुंवद्भावनिषेधार्थं च । बैदी विद्या यस्य बैदीविद्यः । बिदानामसाधारणी या विद्या तद्वानित्यर्थः । छन्दोगौक्थिक । सङ्घादयो निवृत्ताः, एभ्यो ञ्यः स्यत्तस्येदमित्यर्थे । चरणशब्देभ्यो वुञोऽपवादः न त्वौत्सर्गिकस्याणः । धर्मान्नाययोरित्युक्तेर्नेह । छन्दोगं