________________
४३८ ]
सिद्धान्तकौमुदी ।
[राद्धितेषु शैषिक
2
ऋक् । १५०१ रथाद्यत् । ( ४-३ - १२१ ) रथ्यं चक्रम् । १५०२ पत्त्रपूर्वादम् । (४-३-१२२ ) पत्रं वाहनम् । अश्वरथस्येदम श्वरथम् । १५०३ पत्त्राध्वर्युपरिषदश्च । (४-३-१२३ ) श्रञ् । 'पत्राद्वाह्ये' ( वा २६०८ ) । अश्वस्येदं वहनीयमाश्वम् । श्राध्वर्यवम् । पारिषदम् । १५०४ हलसीराट्ठक् त्वाद् ऋत्विग्विशेषे आग्नीध्रशब्दो गौण इति भावः । समिधामिति । श्रधीयते अनेने त्याधानो मन्त्रः । श्रधानो मन्त्र इत्यर्थे षष्ठयन्तात् स मेच्छब्दात् षेन्यप्रत्ययो वा इत्यर्थः । षित्वं ङीषर्थमित्याह - सामिधेनी गिति । सामिधेन्यशब्दाद् ङीष् 'हलस्तद्धितस्य' इति यलोपः । रथाद्यत् । 'तस्येदम्' इत्येव । रथ्यं चक्रमिति । ‘रथाद्रथाङ्गे' इति वचनाच्चक्रमिति विशेष्यम् | पत्त्रपूर्वादञ् । रथादित्येव । पत्त्रं वाहनमिति । 'पत्त्रं वाहनपक्षयोः' इति को ः | पत्त्राध्वर्युपरिषदश्च । अञिति । शेषपूरणम् । पत्त्रादिति । पत्त्राद्वाच्य एवेति वक्तव्यमित्यर्थः । श्वमिति । पत्त्रेत्यर्थग्रहणमिति भावः । श्रध्वर्यवं पारिषदमिति । कर्मणि षष्ठयन्तादाधान करणे न्यण् स्यात् । सामिधेन्य इति । यया श्रग्निः समिध्यते सा समित्, सम्पदादित्वात्करणे क्विप् तस्या आधन इति विग्रहः । सामिधेनीति | षित्त्वान्ङीष्, 'हलस्तद्धितस्य' इति यलोपः । या ऋचा समिदाधीयते सा सामिधेनीत्यर्थः । ' प्रवो वाजा प्रभिद्यवः' इत्याद्याः 'श्राजुहोता दुवस्यत' इत्यन्ताः सामिधेन्य इति व्यवह्रियन्ते । रथाद्यत् । अणोऽपवादः । ' रथाद्रथाङ्गे' इति वार्तिकमभिप्रेत्याह - रथ्यं चक्रमिति । ' रथसीताहले यो यद्विधौ' इति तदन्तविधिरुपसंख्यायते । परमरथ्यम् । उत्तमरथ्यम् । द्वयो थयोरनं द्विरथम् । इह 'द्विगोर्लुगनपत्ये' इति यतो लुक् । ननु यत्प्रत्ययोऽत्र रथाङ्ग एव यदीष्यते कथं तर्हि 'रथस्य वोढा रथ्यः' इति । ' तद्वहति-' इत्यनेनेति चेत् एवं तर्हि अयमेव यद्रथाङ्ग इव वोढर्यपीष्यतां, 'तद्वहति रथयुगप्रासङ्गम् ' इत्यत्र रथग्रहणं त्यज्यतामिति चेत् । मैवम् । द्वौ रथौ वहति द्विरथ्य इत्यत्र 'द्विगोर्लुगनपत्ये' इति प्राग्दीव्यतीयस्य लुक्प्रसङ्गात् । 'तद्वहति-' इति यत्प्रत्यस्य तु प्राग्दीव्यतीयत्वाभाव न्न लुगिति द्विरथ्य इति सिध्यतीति । ननु 'द्विगोर्लुगनपत्ये' इत्यत्राचीत्यस्यापकर्ष णात्कथमत्र यतो लुक्प्रसक्तिरिति चेत् । अत्राहुः - ' तद्वहति - ' इत्यत्र रथग्रहण मेव ज्ञापकमेतस्य यतो हलादेरपि लुग् भवतीति । अन्यथा तत्र रथग्रहणं व्यर्थमेव स्थात्, तथा च द्वयो रथयोरङ्गमिति विग्रहे द्विरथमिति प्रयोगः सुस्थ इति । पत्त्रपूर्वादञ् । पूर्वस्य यतोऽपवादः । पत्त्रमिति । पतन्त्यनेनेति विप्रहे 'दानी -' इत्यादिना ष्ट्रन् । रथादित्येव सम्बध्यत इत्याह- अश्वरथस्येदमिति । श्रश्वयुक्तो रथोऽश्वरथस्तस्या
:
1