SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४३७ (वा २६१०)। संवोदुः सं सांवहिनम् । 'अग्नीधः शरणे रण भरवं च' (वा २६११)। अग्निमिन्छ अनीत् , तस्य स्थानमानीध्रम् । तास्थ्यासोऽप्यानीध्रः । 'समिधामाधाने न्यण' (वा २६१२) । सामिधेन्यो मन्त्रः, सामिधेनी भिर्विशिष्य विहिता घादयश्च प्रत्यया यथाविहितं स्युरित्यर्थः । अत्र शेषे इत्यनु. वृत्तम् । ततश्च अपत्यादिचतुरर्थ्यन्तार्थेभ्योऽन्येषां शेषभूतसर्वविशेषाणां सामा. न्यविशेषरूपेण प्रत्ययार्थत्वं लभ्यते। अपत्यादीनां तु न केनापि रूपेण इदंशब्दा. र्थत्वमिति 'तस्यापत्यम्' इत्यत्रोक्तम् । वहेस्तुरणिट् चेति । वार्तिकमिदम् । तुरिति तृन्तृचोः सामान्येन प्रहणम् । वहधातोविहितो यः तृप्रत्ययः तस्मादण स्यात् तप्रत्ययस्य इडागमश्च । तत्र अण पूर्वेण सिद्ध इड्विध्यर्थमनूद्यते। संवोदुःस्वमिति। विप्रहप्रदर्शनम् । वहेस्तृच् , तृन् वा। वहेरनुदात्तत्वाद् ‘एकाच उपदेशे-' इति नेट् । ढत्वधत्वष्टुत्वढलोपाः। 'सहिवहोरोदवर्णस्य' इत्योत्त्वम्। सांवहित्रमिति । ढत्वादीनामसिद्धत्वादलौकिक एव विप्रहवाक्ये पूर्वमिट् । ततो निमित्ताभावान्न ढत्वादि । अग्नीधः शरणे रण भत्वं चेति । वार्तिकमिदम् । शरणमित्यर्थे अमीच्छब्दात् षष्ठयन्ताद्रण, तस्मिन्परे भत्वं च वक्तव्यमित्यर्थः । शरणं गृहम् । अग्निमिन्द्धे अग्नीदिति । ऋत्विग्विशेषोऽयम् । इन्धेः विप्, 'अनिदिताम्-' इति नलोपः। प्राग्नीध्रमिति । सोमे महावेदेरुत्तरार्धे पञ्चारनिचतुरश्रस्थानविशेषसंज्ञेयम् । भत्वान जश्त्वम् । प्रत्ययखरेणान्तोदात्तोऽयं शब्दः । तैत्तिरीये 'एतद्वै यज्ञस्यापराजितं यदामीध्रम्' इत्यादावाद्युदात्तत्वं तु 'श्रामीध्रसाधारणाद वक्तव्यः' इति स्वार्थिक अनि बोध्यम् । नन्वेवम् 'श्रामीध्रः प्रत्याश्रावयेत्' इत्यादौ कथमृत्विग्विशेष प्रामीध्रशब्दः । तत्राह-तात्स्थ्यादिति । श्रामीध्राख्यदेशस्थन्धिनि स्युः । अनन्तरादिष्वनभिधानान, देवदत्तस्यानन्तरमिति । वहेस्त्विति । इडर्थमिदमुपसंख्यानम् , अण तु सिद्ध एवानूद्यते । तुरिति तृन्तृचोः सामान्यग्रहणम् । ढत्वादीनामसिद्धत्वादलौकिके प्रक्रियावाक्ये पूर्वमिट. ततो निमित्ताभावान ढत्वादीत्याशयेनोदाहरति-सांवहित्रमिति । अग्नीदिति । किम् । ऋत्विग्विशेषोऽयम् । 'त्वमग्निदृतायते' इत्यत्र तु छान्दसं ह्रखत्वम् । प्राग्नीध्रमिति । भत्वविधानाद्धस्य जश्त्वं नेति भावः । सोऽपीति । अमीदपीत्यर्थः । ननु 'पिबानीध्रात्तव' इत्यादावा. युदात्तं प्रयुज्यते । वार्तिके 'तुरण' इति पाठादयमन्तोदात्त इति चेत् । अत्राहः'श्रामीध्रसाधारणादञ्' इति वार्तिकेन विहितो यः स्वार्थेऽञ् तत्पक्षे तत्राद्युदात्तत्वं बोध्यमिति । समिधामिति । कर्मणि षष्टीयम् । श्राधानमिति करणे ल्युट । १ क्वचित् पुस्तके 'भम्' इति पाठः।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy