SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४३६ ] सिद्धान्तकौमुदी। तद्धितेषु शैषिक(४-३-११२) सुदाना अद्रिणा एकदिक् सौदामनी । १४६३ तसिश्च । (४-३-११३) स्वरादिपाठादव्ययत्वम् । पीलुमूलेन एकदिक पीलुमूलतः । १४६४ उरसो यञ्च । (४-३-११४) चात्तसिः । अयोऽपवादः । उरसा एकदिक् उरस्थः, उरस्तः । १४६५ उपज्ञाते । (४-३-११५) तेन इत्येव । पाणिनिनोपज्ञातं पाणिनीयम् । १४६६ कृते प्रन्थे । (४-३-११६) वररुचिना कृतो वाररुचो ग्रन्थः । १४६७ संशायाम् । (४-३-११७) तेन इत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माहिकं मधु । १४६८ कुलालादिभ्यो वुञ् । (४-३-११८) तेन कृते संज्ञाय म् । कुलालेन कृतं कौलालकम् । वारुडकम्। १४६६ मुद्राभ्रमरवटरपादपादञ्। (४-३-११६) तेन कृते संज्ञायाम् । तद्राभिः कृतं चौद्रम् । भ्रामरम् । वाटरम् । पादपम् । १५०० तस्येदम् (४-३-१२०) उपगोरिदमौपगवम् । 'वहेस्तुरणिट् च' दिशि विद्यमानमित्यर्थ तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । सौदामनीति । अणि 'अन्' इति प्रकृतिभावान टिलोपः। तसिश्च । 'तेनैक देक्' इत्यर्थे तृतीयान्तात्तसिश्च स्यादित्यर्थः । इकार उच्चारणार्थः । स्वरादिपाठादिति । 'स्वरादिनिपातमव्ययम्' इति प्रकरणे 'तद्धितश्चासर्वविभक्तिः' इत्यत्र 'तसिलादयः-' इति परिगणने तसेः पाठादित्यर्थः । उरसो यश्च । उरसा एकदिगित्यर्थे तृतीयान्तादित्यर्थः । उपशाते। तेनोपज्ञातमित्यर्थे तृतीयान्ताद् थाविहितं प्रत्ययाः स्युरित्यर्थः । उपज्ञातं प्रथमज्ञातम् । कृते ग्रन्थे । तेन कृतो पन्थ इत्यर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । संज्ञायाम । तेनेत्यवेति । तेन कृतमित्यर्थे संज्ञायां तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । प्रन्थे इति नानुवर्तते । तदाह-अग्रन्थार्थमिति । कुलालादिभ्यो वुझ् । तेन कृते संज्ञायामिति शेषपूरणम् । वारुडकमिति । वरुडो जातिविशेषः । नुद्राभ्रमर । तेन कृते संज्ञायामिति शेषपूरणम् । नुा मधुमक्षिकाः । तस्येदम् । इदमित्यर्थे षष्ठयन्तादणादयः साधारणप्रत्यया । राष्ट्रावारेत्यादिदिगित्यर्थे श्रणादयः स्युः । एका दिक् समाना दिगित्यर्थः । पुनस्तेनेत्युक्तिश्छन्दोऽधिकारनिवृत्त्यर्था । सौदामनीति । 'अन्' इति प्रकृतिभावान दिलोपः । 'तडित्सौ' दामनी विद्युत्' इत्यमरः । तसिश्च । पूर्वोक्तविषये । उपनाते। विनोपदेशं ज्ञातमुपज्ञातम् । कुलालादिभ्यो । कुलाल वरुड चण्डाल निषाद कुम्भकार श्वपाकादयः कुलालादयः । क्षुद्राभ्रमर । पादपशब्दाच्छे प्राप्ते, 'अन्येभ्योऽपि अणि अञ् विधीयते । तस्येदम् । अणादयः पञ्च महोत्सर्गाः, घादर श्च षष्ठयन्तात्सम्ब.
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy