________________
प्रकरणम् २८ ] बालमनोरमात्तत्त्वबोधिनीसहिता। [४३५ (४-३-१०६) छगलिना प्रोक्तमधीयते छागलेयिनः । १४६० पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः। (४-३-११०) णिनिः स्यात् । पाराशर्येण प्रोक्तं मितुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः । १४६१ कर्मन्दकृशाश्वादिनिः। (४-३-१११ ) 'भिक्षुनटसूत्रयोः' इत्येव । कर्मन्देन प्रोनमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः । १४९२ तेनैकदिक् । लुगिति भावः । 'इनण्यनपत्ये' इति प्रकृतिभावमाशङ्कयाह-नान्तस्येति। छग. लिनो ढिनुक् । छगलिन्शब्दादुक्तविषये ढिनुक्प्रत्ययः स्यादित्यर्थः। कलाप्यन्तेवासित्वात् प्राप्तस्य णिनेरपवादः । छागलेयिन इति । ककार इत् , उकार उच्चारणार्थः। ढिन् शिष्यते। ढस्य एय् , टिलोपः। ततोऽध्येतृप्रत्ययस्य लुगिति भावः । पाराशर्य। णिनिः स्यादिति । उक्तविषय इति शेषः । मण्डूकप्लुल्या णिनिरेवानुवर्तत इति भावः। पाराशर्येण प्रोक्तं भिक्षुसूत्रमित्यर्थे, शिलालिना प्रोक्तं नटस्त्रमित्यर्थे च तृतीयान्तारिणनिः स्यादिति यावत् । भिक्षवः संन्यासिनः, तदधिकारिक सूत्रं भिक्षुसूत्रं व्यासप्रणीतं प्रसिद्धम् । पाराशयेणेति । पराशर. शब्दाद्र्गादित्वाद् गोत्रे यषि पाराशर्यो व्यासः । इह त्वनन्तरापत्ये गोत्रत्वारोपाद्यञ् । तेन प्रोक्ते भिक्षुसूत्रे णिनिः, ततोऽध्येतृप्रत्ययस्य छस्य लुक् । पाराशरिण इति । जसि रूपम् । शैलालिन इति । शिलालिन्शब्दाद् नटसूत्रे प्रोक्त णिनी टिलोपे शैलालिन्शब्दादध्येतृप्रत्ययस्याणो लुकि शैलालिन इति जसि रूपमिति भावः । कर्मन्द । कर्मन्देन प्रोक्तं भिक्षुसूत्रमित्यर्थे कृशाश्वेन प्रोक्तं नटसूत्रमित्यर्थे च तृतीयान्तादिनिः स्यादिति यावत् । प्रत्यये अन्त्य इकार उच्चारणार्थः । कर्मन्दशब्दादिनिः, ततोऽध्येत्रणो लुक् । एवं कृशाश्विनः । तेनैकदिक् । सहार्थे तृतीया। एका दिक् अधिकरणात्मिका यस्य तदेकदिक् । तेन सह एकस्या इति णिनेरपवादोऽण् । छगलिनो दिनुक् । कलाप्यन्तेवासित्वात्प्राप्तस्य णिनेरपवादोऽयम् । पाराशर्य । मण्डूकप्लुत्या णिनिरिह सम्बध्यत इत्याह-णिनिः स्यादिति । तद्विषयताऽत्रेष्यते । तदर्थ छन्दोग्रहणमनुवर्त्यम् । सूत्रयोश्छन्दस्त्वं तु गौण्या वृत्त्या बोध्यम् । भिक्षुसूत्रमिति । चतुर्लक्षणीरूपम् । पाराशरिण इति । पराशर्यो व्यासः । अनन्तरापत्येऽपि गोत्रत्वेनोपचाराद् 'गर्गादिभ्यः-' इति यम्, 'आपत्यस्य च-' इति यलोपः । अध्येत्रणस्तु 'प्रोकात्-' इति लुक् । भिक्षुनटसूत्रयोः किम्, पाराशरम् । शैलालम् । कर्मन्द । इहापि छन्दोनुवृत्त्यादि प्राग्वत् । भिक्षुनटसूत्रयोः किम् , कार्मन्दम् । काश्विम् । तेनैकदिक् । तृतीयान्तादेक
१ 'अयम्' इति पाठः क्वचिनास्ति ।