________________
प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५१ स्यात् । 'लुपि युक्रवत्-' (स् १२६४) जम्वाः फलं जम्बूः । 'फलपाकशुषामुपसङ्ख्यानम्' (वा २६४६) । व्रीहयः। मुद्राः । 'पुष्पमूलेषु बहुलम्' (वा २९५०) मल्लिकायाः पुष्पं मल्लिका । जात्याः पुष्पं जाती। विदार्या मूलं विदारी। बहुलग्रहणानेह । पाटलानि पुष्पाणि । साल्वानि मूलानि । बाहुलकास्कचिल्लुक् । अशोकम् । करवीरम् । १५४६ हरीतक्यादिभ्यश्च । (४-३-१६७) एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरीतक्यादीनां लिङ्गमेव प्रकृतिवत् । हरीतक्याः फलानि लुप् च । लुकैव सिद्ध लुम्विधेः फलमाह-लुपि युक्तवदिति । जम्बूरिति । जम्ब्वाः फलमित्यर्थः । फलप्रत्ययस्य लुपि युक्रवत्त्वेन विशेष्यलिङ्गवचने बाधित्वा स्त्रीत्वमेकवचनं चेत्यर्थः । तथा च जम्ब्वाः फलान्यपि जम्बूरेव। फलपाकेति । फलपाकेन शुष्यन्तीति फलपाकशुष ओषधयः, तद्वाचिभ्यः परस्य फलप्रत्ययस्य लुप उपसंख्यानमित्यर्थः । 'फले लुक्' इत्यस्यापवादः । व्रीहय इति । व्रीह्याख्यानामोषधीनां फलानीत्यर्थः । एवं मुद्राः । बिल्वाद्यणो लुप् । युक्तवद्भावात्पुंस्त्वम् , नतु विशेष्यनिन्नत्वम् । पुष्पमुलेषु बहुलमिति । वार्तिकमिदम् । विकारावयवप्रत्ययस्य लुप् स्यादिति शेषः । पुष्पं मल्लिकेति । 'अथ द्वितीयं प्रागीषात्' इत्यनुवृत्तौ 'मादीनां च' इति फिट्सूत्रेण मध्योदात्तो मल्लिकाशब्दः । ततः 'अनुदात्तादेश्च' इत्यओ लुप् । युक्तवत्त्वात्स्त्रीत्वम् । जातीति । 'लघावन्ते-' इत्यन्तोदात्तो जातिशब्दः । ततः 'अनुदात्तादेश्व' इत्योऽनेन लुप् । युक्तवत्त्वात्स्त्रीत्वम् । विदारीति । जातिबीषन्तमिदं प्रत्ययस्वरेणान्तोदात्तम् । अनुदात्तादित्वादनि तस्य लुप् , युक्तवत्त्वात्स्त्रीत्वम् । पाटलानीति । बिल्वादित्वादण् । एवं साल्वानि । ननु अशोकस्य पुष्पम् अशोकम् , करवीरस्य पुष्पं करवीरम् , इत्यत्रापि 'पुष्पमूलेषु बहुलम्' इति लुपि युक्तवत्त्वात् पुंस्त्वे अशोकः पुष्पं करवीरः पुष्पमिति स्यादित्यत आह-बहुलग्रहणात् क्वचिल्लुगिति । तथा च युक्तवत्त्वस्यप्रवृत्तेः विशेष्यनिघ्नत्वमेवेति भावः। हरीतक्यादिभ्यश्च । हरीतक्यादीनामिति । वार्तिकमिदम् । एषां प्रकृतिलिङ्गमेव लुप्तप्रत्ययार्थे अतिदिश्यते, नतु प्रकृतिवचनमपीत्यर्थः । हरीतक्य पक्षे तु विध्यर्थम् । जम्ब्विति । नपुंसकह्रखः । 'फले जम्ब्वा जम्ब्बूः स्त्री जम्बु जाम्बवम्' । फलपाकेति । फलपाकेन शुष्यन्तीति फलपाकशुषः । व्रीहयः । मुद्दा इति । बिल्वाद्यणो लुक् । मल्लिकेति । अनुदात्तलक्षणस्यानो लुप् । 'मालादीनां च' इति फिटसूत्रान्मल्लिकाशब्दे द्वितीयमुदात्तम् । जातीविदारीशब्दौ गौरादिछीषन्तौ । पाटलानीति । विल्वादित्वादण् । साल्वशब्दः प्रातिपदिकखरेणान्तोदात्तः । हरीतक्यादिभ्यश्च । इह द्राक्षाप्रमृतिभ्यो 'नित्यं वृद्ध-' इति प्राप्तस्य