SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४५२ ] सिद्धान्तकौमुदी। [तद्वितेषु प्राग्वहतीय हरीतक्यः । १५४७ कंसीयपरशव्ययोर्यत्रो लुक्च। (४-३-१६८) कंसीयपरशव्यशब्दाभ्यां यजौ स्तश्छयतोश्च लुक् । कंसाय हितं कंसीयम् , तस्य विकारः कांस्यम् । परशवे हितं परशव्यम् , तस्य विकारः पारशवः । ___ इति तद्धितेषु चतुर्थस्य तृतीयपादे प्राग्दीव्यतीयप्रकरणम् । अथ तद्धितेषु प्राग्वहतीयप्रकरणम् । ३० । १५४८ प्राग्वहतेष्ठक् । (४-४-१) तद्वहतीत्यतः प्राक् ठगधि. क्रियते । तदाहेति माशब्दादिभ्य उपसङ्ख्यानम्' (वा २६३१) मा शब्दं कार्षीः इति । जातिङीषन्तः प्रत्ययस्वरेणान्तोदात्तो हरीतकीशब्दः । ततोऽनुदात्तादित्वादनि तस्य ‘फले लुक्' इति लुकि प्राप्ते लुपि युक्तवत्त्वात्त्रीत्वे विशेष्यानुरोधाद्वहुवचनम् । कंसीयपरशव्य । अत्र यसोने लुक् , विधिवैयर्थ्यात् । नापि प्रकृत्योः, प्रत्ययादर्शनस्यैव लुक्त्वात् । अतः परिशेषात् प्रकृत् पेकदशयोः छयतोरिति लभ्यते । तदाह-छयतोरिति । कंसीयमिति । कंसो नम धातुर्लाहविशेषः । तस्मै हितमिति छः । कांस्यमिति । कंसीयशब्दाद् यनि छस्य लुकि श्रादिवृद्धौ 'यस्येति च' इत्यकारलोपः । परशव्यमिति । 'तस्मै हितम' इत्यधिकारे 'उगवादिभ्यो यत्' इति यति, ओर्गुणे 'वान्तो यि-' इत्यवादेशः । पारशव इति । परशव्यशब्दादनि यतो लुकि ओर्गुणे पारशवः । 'हलस्त द्धितस्य' इति तु न, ईतीत्यनुवृत्तेः । अनापत्यत्वाद् 'आपत्यस्य च-' इत्यपि लोपो न प्रसज्यत इति भावः । इति तद्धितेषु चतुर्थस्य तृतीयपादे प्राग्दीव्यतीयप्रकरणम् । अथ चतुर्थस्य चतुर्थः पादः प्रारभ्यते-प्राग्वहतेष्ठक् । वहतीत्येक देशेन 'तद्वहति रथयुगप्रासङ्गम्' इति सूत्रं परामृश्यते इत्यभिप्रेत्याह-तद्वहमयटो लुप्, अनुदात्तादिभ्योऽञः, इतरेभ्यस्त्वणः । लिङ्गमेवेति । वचनं तु विशेष्यवदेव । 'हरीतक्यादिषु व्यक्तिः' इत्युक्तत्वादिति भावः । कंसीयमिति । 'प्राक्क्रीताच्छः' इत्यधिकारे 'तस्मै हितम्' इति छः । तस्यैव छस्यापवादतया 'उगवादिभ्यो यत्' परशव्यं दारु । परशव्यशब्दस्यानुदात्तादित्वादनि सिद्धे तत्संनियोगेन यतो लुगथं वचनम् । न च 'यस्येति-' यलोप कृते 'हलस्तद्धितस्य' इति यलोपेन सिद्धमिष्टमिति भ्रमितव्यम् । ईतीत्यनुवृत्तेः । इति तत्त्वबोधिन्यां प्राग्दीव्यतीयप्रकरणम् । तदाहेतीति । वाक्यादयं प्रत्ययविधिः, शब्दो माकारीति यो निषेधति स माशब्दिक इत्युच्यते । तथा नित्यः शब्द इति य आह स नैत्यशब्दिकः।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy