SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ३०] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५३ इति य प्राह स माशब्दिकः । १५४६ स्वागतादीनां च । (७-३-७) ऐन स्यात् । स्वागतमिस्याह स्वागतिकः । स्वावरिकः । स्वङ्गस्यापत्यं स्वाभिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यस्थापत्यं ज्याडिः । व्यवहारेण चरति व्यावहारिकः । स्वपतौ साधु स्वापतेयम् । 'श्राही प्रभूतादिभ्यः' (वा २६५२) । प्रभूतमाह तीत्यत इति। तदाहेति । इतिशब्दो व्युत्क्रमेण तच्छब्दानन्तरं द्रष्टव्यः । तदित्याहेत्यर्थे माशब्दस्वागतइत्यादिशब्देभ्यः ठक उपसंख्यानमित्यन्वयः । तदित्यनेन वाक्यार्थो विवक्षितः। इतिशब्दस्तस्य वाक्यार्थस्य कर्मत्वं गमयति । 'मा शब्द कार्षीः' इत्याहेत्याद्यर्थे तद्वाक्यावयवाद् 'माशब्द' इत्यादिशब्दात् ठगिति यावत् । मा शब्दं कार्षीः इति य ाह स माशब्दिक इति । शब्दं मा कार्षीरित्यन्वयः। 'माडि लुङ्' इति लोडर्थे लुङ् । 'न माङ्योगे' इत्यडागमनिषेधः। शब्दं न कुरु इत्यर्थः । अत्र आहेति बेञ्धात्वर्थव्यक्तवचनक्रिया प्रति मा शब्दं कार्षीरिति वाक्यार्थः कर्म । तद्वाक्यैकदेशो माशब्देति समुदायः। तस्मानिर्विभक्तिकादयं प्रत्ययः । न हि माशब्देति समुदायाद्विभक्तिरस्ति। एवं च माशब्देति समुदायाट्ठकि माशब्दिक इति रूपम् । 'मा शब्दः कारि' इति पाठे तु कारीति कर्मणि लुङ् । शब्दो न कार्य इत्यर्थः। नच तदाहेत्यर्थे माशब्दादिभ्यः ठगिति यथाश्रुतम् अभ्युपगम्य माशब्दमाहेत्याद्यर्थे माशब्देत्यादिशब्देभ्यो द्वितीयान्तेभ्यः ठगित्येव कुतो न व्याख्यायत इति वाच्यम् , एवं सति 'श्राही प्रभूतादिभ्यः' इत्युत्तरवार्तिकारम्भवैयर्थ्यापत्तरिति भावः । स्वागतादिगणे स्वागत, स्वध्वर इति पठितम् , तत्र विशेषमाह-स्वागतादीनां च । 'न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच्' इति प्रकरणे 'कर्मव्यतिहारे' इत्यस्मादुत्तरं सूत्रमिदम् । ऐज्न स्यादिति । शेषपूरणमिदम् । 'न य्वाभ्यां पदान्ताभ्यां पूर्षों तु ताम्यामैच' इति प्राप्त ऐज् न स्यादित्यर्थः । स्वाध्वरिक इति । स्वध्वर इत्याहेत्यर्थः । अथ स्वागतादिगणशेषमुदाहरति-स्वङ्गस्येति । व्याङ्गिरिति । व्यास्यापत्यमिति विग्रहः । व्यडस्येति । न विद्यते डो यस्य सः अडः, विगतः अडः व्यडः । स्वापतेयमिति । 'पथ्यतिथिवसतिस्वपतेढ' । द्वारादित्वादैच् प्राप्तो निषि. ध्यते । आहाविति । 'आह' इति पदैकदेशादिकारस्य उच्चारणार्थो निर्देशः । 'तत्' कार्यशब्दिकः । इह वाक्याद् द्वितीया न सम्भवत्यप्रातिपदिकत्वात् । तेन तच्छन्देन कर्ममात्रं निर्दिश्यते, तच्च वाक्यार्थरूपमित्याहुः। ऐज न स्यादिति । 'न य्वाभ्याम्-' इति प्राप्त ऐजागमोऽनेन निषिध्यते । 'न कर्म-' इत्यतो नअनुवर्तनादिति भावः । स्वापतेयमिति । 'पथ्यतिथिवसतिखपतेर्हज्' । स्वशब्दस्य द्वारादित्वादैजागमस्य
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy