________________
४५४ ]
सिद्धान्तकौमुदी । [तद्धितेषु प्राग्वहतीय
प्राभूतिकः । पार्याप्तिकः । 'पृच्छतौ सुनातादिभ्यः' ( वा २९५३) । सुख्खातं पृच्छति सौखातिकः । सौखशायनिकः । श्रनुशतिकादिः । 'गच्छतौ परदारादिभ्यः' ( वा २६५४ ) । पारदारिकः । गौरुतल्पिकः । १५५० तेन दीव्यति खनति जयति जितम् । ( ४-४-२ ) अचैर्दीव्यति आक्षिकः । श्रभ्रया खनति श्रभ्रिकः । श्रक्षैर्जयति श्रातिकः । श्रतैर्जितमाक्षिकम् । १५५१ संस्कृतम् । ( ४-४-३ ) दना संस्कृतं दाधिकम् । मारीचिकम् । १५५२ कुलत्थकोपधादण् । ( ४-४-४ ) ठकोऽपवादः । कुलस्यैः संस्कृतं कौलत्थम् । तैन्तिणीकम् । १५५३ तरति । ( ४-४-५ ) उडुपेन तरति धौडुपिकः । १५५४ गोपुच्छाट्ठञ् । ( ४-४-६ ) गौपुच्छुिकः । १५५५ नौह्यचष्ठन् । ( ४-४-७ ) इति पूर्ववार्तिकादनुवर्तते । श्रहेत्यर्थे द्वितीयान्तेभ्यः प्रभूतादिभ्यष्टग्वाच्य इत्यर्थः । पार्याप्तिक इति । पर्याप्तमाहेत्यर्थः । पृच्छताविति । 'तत्' इत्यनुवर्तते । पृच्छतीत्यर्थे द्वितीयान्तेभ्यः सुस्नातादिभ्यः ठग्वाच्य इत्यर्थः । सौखशायनिक इति । सुखशयनं पृच्छतीत्यर्थः । अनुशतिकादिरिति । सुखशयनशब्द इति शेषः । ततश्च 'अनुशतिकादीनां च' इति पूर्वोत्तरपदयोरादिवृद्धिरिति भावः । गच्छताविति । 'तत्' इत्यनुवर्तते । गच्छतीत्यर्थे परदारादिभ्यो द्वितीयान्तेभ्यः ठगित्यर्थः । पारदारिक इति । परदारान्गच्छतीत्यर्थः । गौरुतल्पिक इति । गुरुतल्पं गच्छतीत्यर्थः । गुरुतल्पो गुरुखी । तेन दीव्यति खनति जयति जितम् । तेन दीव्यति, तेन खनति, तेन जयति, तेन जितम् इति विग्रहेषु तृतीयान्ताट्ठगित्यर्थः । श्रभ्रिः कुद्दालः । देवदत्तेन जितमित्यत्र तु न ठक् । करणतृतीयान्तादेव तद्विधेः । संस्कृतम् । तेनेत्येव । संस्कृतमित्यर्थे तृतीयान्ताट्ठगित्यर्थः । 'संस्कृतं भक्षाः ' इत्यत्र तु सप्तम्यन्तादणादिविधिः । मारीचिकमिति । मरीचिभिः संस्कृतमित्यर्थः । कुलत्थकोपधादण् । संस्कृतमित्यर्थे तृतीयान्तादिति शेषः । तैन्ति - गीकमिति । तिन्तिणीकेन संस्कृतमित्यर्थः । तरति । ततीत्यर्थे तृतीयान्ताप्राप्तिः । द्वारादिफलं तु स्वस्येदं सौवमिति ज्ञेयम् । श्रहाविति । उपसंख्यानमित्यनुषज्यते । श्रहेतिपदे एकदेशस्य प्रकृतिभागस्यागन्तुकेनेकारेण श्राहावित्यनुकरणम् । प्राभूतिक इति । क्रियाविशेषणाद्वक्तरि प्रत्ययः । तेन दीव्यति । इह कालपुरुषसंख्या न विवक्षिताः । तेनाक्षैरेदवीद् देविष्यति वा प्राक्षिक इति भवति । एवमदेविष्यसि देविष्यामि वा श्रातिकः, दीव्यन्ति दीव्यथ दीव्यामो वा श्राक्षिकाः । कारकं तु विवक्षितमेव ‘जयति, जितम्' इति कर्तृकर्मणोः पृथगुपादानात् । तेनाक्षैद्यूतः, अक्षैः खातः इति कर्माद्यर्थे आक्षिक इति न भवति । अभ्रयेति । 'अभिः स्त्री