________________
४५० ] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्दीव्यतीय१५४१ फले लुक् । (४-३-१६३) विकारावयवप्रत्ययस्य लुक्स्यास्फले । प्रामलक्याः फलमामलकम् । १५४२ लक्षादिभ्योऽण । (४-३-१६४) विधानसामर्थ्याश लुक् । प्राधम् । १५४३ न्यग्रोधस्य च केवलस्य । (७-३-५) अस्य न वृद्धिरैजागमश्च । नयग्रोधम् । १५३४ जम्ब्वा वा । (४-३-१६५) जम्बूशब्दारफलेऽएवा स्यात् । जाम्बवम् । पक्षे श्रोरन् , तस्य लुक्, जम्बु । १५४५ लुप् च । (४-३-१६६ ) जम्ब्वाः कलप्रत्ययस्य लुब्वा गम्ये द्रुशब्दाद्वयप्रत्ययः स्यादित्यर्थः । फले लुक् । आमलकमिति । फलितस्य वृक्षस्य फलमवयवो विकारश्च, तस्मिन्मयटो लुकि 'लुक्तद्धितलुकि' इति डोषो लुक् । लक्षादिभ्योऽण् । विकारे अवयवे चेति शेषः। तत्र शिग्रकर्कन्धुशब्दयोरुवर्णान्तत्वादनि प्राप्ते प्लक्षन्यग्रोधादीनाम् अनुदात्तादित्वादनि प्राप्ते अणविधिः । नन्वस्य फले अणो लुक् कुतो नेत्यत श्राह-विधानेति । न्यग्रोधस्य च केवलस्य । 'न य्वाभ्याम्-' इत्युत्तरसूत्रमिदम् । अस्येति । केवलस्ट न्यग्रोधस्येत्यर्थः । केवलत्वं पदान्तरविहीनत्वम् । न्यग् रोहतीति न्यग्रोध इति व्युत्पत्तिपक्ष यद्यपि 'न य्वाभ्याम्-' इत्येव सिद्धम् , यकारस्य पदान्तत्वात् । तथापि केवलस्यैव इति नियमार्थ सूत्रम् । अव्युत्पत्तिपक्षे तु यकारस्य अपदान्तत्वाद् विध्यर्थमेव । 'केवलस्य' किम् ? न्यायोधमूलाः शालयः । जम्ब्वा वा । जम्ब्विति । जम्ब्वाः फलमित्यर्थः । अञो लुकि विशेष्यानुसारेण नपुंसकत्वाद् ह्रस्व इति भावः । इति यत्प्रत्ययान्तः। माने वयः । यतोऽपवादः । द्रुवयमिति । द्रोविकारभूतं प्रस्थादिपरिमाणमित्यर्थः । फले लुक् । विकारावयवेति । फ लेतस्य वृक्षस्य फलमवयवो विकारश्च, तेनान्यतरस्मिन् प्रत्ययः। आमलकमिति । मपटो लुक्, 'लुक्लद्धितलुकि' इति डोषो लुक् । न चात्र स्थानिवद्भावेन 'यस्येति च' इति लोपः शङ्कयः । 'लुका लुप्तं न स्थानिवत्' इत्यभ्युपगमात् । अतएव पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुरित्यत्र 'अध्यर्धपूर्व-' इति ठो लुकि कृते 'लुक्तद्धित -' इति डीपो लुका लुप्तत्वेन स्थानिवत्त्वाभावादुकारस्य यणादेशो न भवति । लक्षादिभ्योऽण् । अञोऽपवादः । शिग्रकर्कन्धूशब्दाभ्याम् 'पोरञ्' इति, अन्येभ्य त्वनुदात्तादित्वादनः प्राप्तिः। प्लक्ष न्यग्रोध अश्वत्थ इङ्गदी शिग्र कर्कन्धू बृहती। तत्र प्लक्षशब्दः 'फिषः' इत्यन्तोदात्तः । न्यग्रोधशब्दो 'लघावन्ते-' इति मध्योदात्तः । अश्वत्थशब्दस्तु घृतादि. त्वादन्तोदात्तः । इङ्गदीबृहतीशब्दो गौरादिङीषन्तौ। 'पाश्वत्थर्वणवप्लाक्षनैयग्रोधैङ्गदं फले' इत्यमरः । न्यग्रोधस्य च । केवलस्येति किम् , न्यग्रोध मूले भवा न्याग्रोध. मूलाः शालयः ।। न्यग् रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे नियगार्थम् , अव्युत्पत्ति