________________
प्रकणरम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [४४६ अणादीनामपवादः । निष्केण क्रीतं नैष्किकम् । एवं निष्कस्य विकारोऽपि नैष्किकः। शतस्य विकारः शत्यः, शतिकः । १५३५ उष्ट्राद् वुन् । (४-३-१५७) प्राण्यमोऽपवादः । श्रौष्ट्रकः । १५३६ उमोर्णयोर्वा । (४-३-१५८) श्रीमकम् , भौमम् । और्णकम् , और्णम् । वुमभावे यथाक्रममणौ । १५३७ एण्या ढञ् । (४-३-१५६) ऐणेयम् । एणस्य तु ऐणम् । १५३८ गो. पयसोर्यत्। (४-३-१६०) गग्यम् । पयस्यम् । १५३६ द्रोश्च । (४-३-१६१) दुर्वृतः, तस्य विकारोऽवयवो वा द्रव्यम् । १५४० माने वयः । (४-३-१६२) दोः इत्येव । द्रुवयम् । 'योतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम्' इत्यमरः । नेत्यर्थः । नैष्किक इति । 'असमासे निष्कादिभ्यः' इति क्रीते ठक् । शत्यः, शतिक इति । 'शताच ठन्यतौ--' इति क्रीते ठन्यतौ । उष्ट्राद्वञ् । प्राण्या इति। 'प्राणिरजतादिभ्योऽञ्' इत्यस्यापवाद इत्यर्थः । उमोर्णयोर्वा । वुनिति शेषः । श्रीमकमिति । उमा सस्यविशेषः । 'उमा स्यादतसी सुमा'इत्यमरः । उमाया विकारोऽवयवो वेत्यर्थः । श्रीममिति । 'तृणधान्यानो च' स्युमाशब्द श्रायुदात्तः, ततो वुञभावे 'अनुदात्तादेश्च' इत्यमभावादौत्सर्गिकोऽण् । ऊर्णाशब्दस्तु फिट्स्वरेणान्तोदात्तः। ततो वुजभावे अनुदात्तादित्वादमित्यर्थः । 'ऊर्णा मेषादिलोनि स्यात् इत्यमरः । 'स्थूणोणे नपुंसके च' इति लिङ्गानुशासनसूत्रम् । एण्या ढम् । एण्या अवयवो विकारो वा ऐणेयम् । ढस्य एयादेशः। 'यस्येति च' इति ईकारलोपः। स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह-एणस्य त्विति । गोपयसोर्यत् । गव्यमिति। गोर्विकारोऽवयवो वेत्यर्थः । 'वान्तो यि-' इत्यवादेशः । पयस्यमिति । पयसो विकार इत्यर्थः । 'सर्वत्र गोरजादिप्रसङ्गे यत्' इत्येव सिद्धे यद्विधानं 'मयड्वैतयो:इति पाक्षिकमयटो बाधनार्थम् । द्रोश्च । यदिति शेषः । 'एकाचो नित्यम्' इति मयटः ‘ोरञ्' इत्यस्य चापवादः । माने वयः। द्रोरित्यवति । माने विकारे मयमिति । बिल्वशब्दोऽणन्तः । नैष्किकमिति । 'तेन क्रीतम्' इति ठक् । शत्यः । शतिक इति। 'शताच ठन्यतौ-' । अणसाविति । उमाशब्दः 'तृणधान्यानां च' इत्याद्युदात्तः । ऊर्णाशब्दस्तु प्रातिपदिकखरेणान्तोदात्त इति भावः । एण्या ढञ् । प्राण्यमोऽपवादः । स्त्रीलिङ्गनिर्देशादाह-एणस्य त्विति । गोपयसोः । यद्यपि सर्वत्र गोरजादिप्रसङ्गे यदुक्तस्तथापि 'मयड्वैतयोः-' इति पक्षे प्राप्तं मयटं बाधितुं पुनरयं यद्विधिः । द्रोश्च । ओरबः, "एकाचो नित्यम्' इति मयटश्चापवादोऽयम् । द्रव्यमिति । 'ओर्गुणः' 'वान्तो यि प्रत्यये' 'द्रव्यगुणकर्मइत्यादिषु प्रयुज्यमानद्रव्यशब्दस्तु गुणैर्दूयते-आश्रीयते इति दुधातोः 'अचो यत्'