________________
४४८ ]
सिद्धान्तकौमुदी । [तद्धितेषु प्राग्दीव्यतीय
हाटकः खापनीयः सौवर्णो वा निष्कः । 'परिमाणे' किम् - हाटकमयी यष्टिः । १५३२ प्राणिरजतादिभ्योऽञ् । ( ४-३ - १५४ ) शौकम् । बाकम् । राजतम् । १५३३ ञितश्च तत्प्रत्ययात् । ( ४-३ - १५५ ) जियोविकारावयवप्रत्ययः तदन्तादव्स्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दास्य दाधित्थम् । कापित्थम् । त्रितः किम् - बैरमयम् । १५३४ क्रीतवत्परिमाणात् । ( ४-३ - १५६ ) 'प्राग्वहतेष्ठक्' ( सू १५४८ ) इत्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्ते ।
श्रह - बहुवचनादिति । हाटक इत्यादि । हाटकस्य तपनीयस्य सुवर्णस्य वा निष्कपरिमाणको विकार इत्यर्थः । तापनीय इति । 'नित्यं वृद्धशरादिभ्यः' इति मयोऽपवादः । इतरत्र तु 'अनुदात्तादेश्च' इत्यत्रोऽपवादः । ' गुञ्जाः पञ्चाद्यमाषकः । ते षोडशाक्षः' इत्यमरः । 'सुवर्णबिस्तौ हम्नोऽक्षे इति च । प्राणिरजतादिभ्योऽञ् । शौकम् । बाकमिति । शुकस्य बकस्य वा अवयवो विकारो वेत्यर्थः । ‘प्राणिनां कुपूर्वम्' इत्यायुदात्तत्वाद् 'अनुदात्तादेश्च' इत्यत्रो न प्राप्तिः । राजतमिति । अनुदात्तादित्वादनि सिद्धे मयड्वाधनार्थमविधिः । जितश्च तत्प्रत्ययात् । तयोर्विकारावयवयोः प्रत्ययः तत्प्रत्ययः । तदाह - ञिद्य इति । तयोरेवेति । विकारावयवयोरेवेत्यर्थः । शामीलस्येति । शम्या विकारः अवयवो वा शामीलम् | 'शम्याः प्लञ्' । शामीलस्य विकारः श्रवयवो वेत्यर्थे अनि शामील - मिति भवतीत्यर्थः । 'नित्यं वृद्ध -' इति मयटोऽपवादः । दाधित्थमिति । दधित्थस्य विकारोऽवयवो वा दाधित्थम् । अनुदात्तादित्वादञ् । दाधित्थस्य विकारो दाधित्थम् · मयडपवादोऽञ् । बैल्वमयमिति । 'बिल्वादिग्भ्योऽण्' इति बिल्वशब्दादरिण बैल्वः, तस्य विकार इत्यर्थे मयडेव, न त्वञ् । अणो वित्त्वाभावादिति भावः । भाष्ये तु 'विकारावयव प्रत्ययान्तात् पुनस्तत्प्रत्यया अनभिधानाद् न' इत्याश्रित्य सूत्रमिदं प्रत्याख्यातम् । क्रीतवत्परिमाणात् । उपाधिनेति । प्रकृत्यादिविशेषणेचरितार्थत्वादित्याहुः । तालानुषीति । गणसूत्रमिदम् । हाटक इति । इह वृद्धलक्षणो मयद् प्राप्तः, तपनीयादेः 'अनुदात्तादेश्व' इत्यम् प्राप्तः । प्राणि । अनुदात्तादेरञः सिद्धत्वात्परिशिष्टमिहोदाहरणं तदाह - शौकम् । बाकमिति । शुकबकशब्दौ 'प्राणिनां कुपूर्वम्' इत्यायुदात्तौ । राजतमिति । रजत सीस लोह उदुम्बर, कण्टकारेत्यादयो रजतादयस्तेषु अनुदात्तादीनां पुनः नाठो मयड्वाधनार्थः । अन्यथा हि परत्वान्मयट् स्यादेव | शामीलमिति । शामीलशब्दः 'शम्याः ब्लञ्' इति ष्लञन्तः । दधित्थाद् 'अनुदात्तादेश्च' इत्यन् । दाधित्थस्य दाधित्थम् । बैल्व
,