________________
प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसंहिता। [४४७ मयट् स्याद्विकारे । पिष्टमयम् भस्म । कथं पैष्टी सुरेति । सामान्यविवक्षायां तस्येदम्' (सू १५००) इस्यण । १५२७ संज्ञायां कन् । (४-३-१४७) 'पिष्टात्' इत्येव । पिष्टस्य विकारविशेषः पिष्टकः । 'पूपोऽपूपः पिष्टकः स्यात्' । १५२८ बीहेः पुरोडाशे । (-३-१४८) मयट् स्यात् । बिल्वाधणोऽपवादः । बीहिमयः पुरोडाशः । चैहमन्यत् । १५२६ असंज्ञायां तिलयवाभ्याम् । (४-३-१४६ ) तिलमयम् । यवमयम् । संज्ञायां तु तैलम् । यावकः । १५३० तालादिभ्योऽण् । (४-३-१५२) अन्मयटोरपवादः । 'तालाद्धनुषि (ग सू १६४) तालं धनुः । अन्यत्तालमयम् । ऐन्द्रायुधम् । १५३१ जातरूपेभ्यः परिमाणे । ( ४-३-१५३) अण् । बहुवचनात्पर्यायग्रहणम् । तस्येदमित्यर्थेऽयं प्रत्ययः । पिष्टाच्च । शेषपूरणेन सूत्रं व्याचष्टे-मयट् स्याद्विकार इति । संज्ञायां कन् । विकारविशेष इति । अपूप इत्यर्थः । तदाह-पूपोऽपूपः पिष्टकः स्यादिति । अमरकोशोऽयम् । पुरोडाशस्तु न पिष्टकः, तस्यानपूपत्वात् । 'अतुङ्गमनपूपाकृतिमश्वशफमात्रं पुरोडाशं करोति' इति श्रुतेः । बीहेः पुरोडाशे। पुरोडाशात्मके विकारे नित्यं मयट् स्यादित्यर्थः । तर्हि बिल्वादिगणे पाठः किमर्थमित्यत आह-त्रैहमन्यदिति । असंज्ञायां तिलयवाभ्याम् । नित्यं मयडिति शेषः। यावक इति । यवशब्दाद्विकारे अण् । ततः 'यावादिभ्य -' इति स्वार्थे कन् । तालादिभ्योऽण । तालाद्धनुषीति । गणसूत्रमिदम् । तालं धनुरिति । 'नित्यं वृद्ध-' इति मयटोऽपवादः । ऐन्द्रायुधमिति । 'अनुदात्तादेश्च' इत्योऽपवादः, समासस्वरेणान्तोदात्तत्वात् । जातरूपेभ्यः । अणिति । शेषपूरणम् । जातरूपं सुवर्णम् , तद्वाचिभ्योऽण स्यात्परिमाणे विकारे गम्य इत्यर्थः । ननु जातरूपशब्दस्यैव कुतो न ग्रहणमित्यत 'गोपयसोर्यत्' वक्ष्यति । पुरीषे किम् , गव्यं पयः।यावक इति। यवशब्दाद्विकारेऽण, तदन्ताद् 'यवादिभ्यः' इति स्वार्थे कन् । तालादिभ्योऽण । अमयटोरिति । तालश्यामाकशब्दाभ्यां वृद्धत्वान्मयट प्राप्तः । बर्हिणां विकारो बार्हिणम् । 'प्राणिरजतादिभ्योऽञ्' ततो 'जितश्च तत्प्रत्ययात्' इत्यञ् प्राप्तः, शेषेभ्यस्त्वनुदात्तादित्वाद प्राप्तः । तथाहि विशिशिभ्यामिन्द्रशब्द उपपदे मूलविभुजादित्वात्कः । 'अन्येषामपि-' इति दीर्घः। इन्द्राविशः, इन्द्रादृशः । 'चप सान्त्वने' पचाद्यच् । चपापीयूक्षाशब्दो 'लघावन्ते-' इति मध्योदात्तः 'फिषः' इत्यधिकारादापः प्रागेव खरप्रवृत्तेः । इन्द्रायुधशब्दः समासखरेणान्तोदात्तः । अण्ग्रहणं बाधकबाधनार्थम् । यथाविहितप्रत्ययविधौ बर्हिणशब्दाद् वृद्धलक्षणो मयट् स्याद् , 'मितश्च तत्प्रत्ययात्' इत्यमो बाधनेन वचनस्य