SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४४६ ] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्दीव्यतीयनित्यं वृद्धशरादिभ्यः । (४-३-१४४) आम्रमयम् । शरम्यम् । 'एकाचो नित्यम्' (२०५२)। स्वायम् । वाङ्मयम् । कथं तर्हि 'अ प्यम्, अम्मयम्' इति–'तस्येदम्' (१५००) इत्यगणन्तात्स्वार्थे व्यञ् । १५२५ गोश्च पुरीषे । (४-३-१४५) गोः पुरीषं गोमयम् । १५२६ पिष्टाच्च । (४-३-१४६) दितः अश्मक इति । अश्मन्शब्दात् स्वार्थे कप्रत्ययः, तदभावे अश्मेत्यपि नाम, तस्य विकारो अवयवो वेत्यर्थः । 'अन्' इति प्रकृतिभावान टिलोपः । नच विकारार्थकत्वे 'अश्मनो विकारे-' इति टिलोपः शङ्कयः। तत्र पाषाणवाचकत्वेन प्रसिद्धस्याश्मन्शब्दस्यैव ग्रहणादिति भावः । नित्यं वृद्धशर । मयडिति शेषः । उक्तविकल्पस्यापवादः । एकाचो नित्यमिति । नित्यमिति योगविभागलब्धमिदम् । अराणन्तादिति । अपामिदमापम् , 'तस्येदम्' इत्यगा। ततः स्वार्थे चतुर्वर्णादित्वात् ष्यत्रि प्राप्यमिति रूपमित्यर्थः । गोश्च पुरीषे । नित्यं मयडित्यनुवर्तते । गोमयमिति । यद्यपि पुरीषं न गोविकारो नाप्य वयवः । तथापि 'अश्मनो विकारे-' इति टिलोपः स्यादिति वाच्यम् , प्रसिद्धतरत्वेन पाषाणवाचकस्यैव तत्र ग्रहीतुमुचितत्वात् । वस्तुतस्तु 'तस्येदम्' इति सामान्यविवक्षायां पाषाणवाचकस्याप्यश्मन्शब्दस्याश्मनमिति भविष्यति, पैष्टी सुरेतिवत् । मौद्गः नूपः । कास. मिति । मुद्गशब्दो घृतादित्वादन्तोदात्तः । 'कृञः पासः' इति पासप्रत्यये गुणे रपरे च कर्पासीशब्दो जातिलक्षणीषन्तस्ताभ्यां 'अनुदात्तादेश्च' इत्यजं बाधित्वा बिल्वादित्वादण् । नित्यं वृद्धः । इह 'भाषायामभक्ष्याच्छादनयोः इत्यनुवर्तत इति वृत्तिः । नन्वेवमानन्दमयाधिकरणे शङ्कराचार्यैः 'अन्योन्तर आत्मानन्दमयः' इति श्रुतौ 'आनन्दमय इति विकारे मयट्' इत्युक्तं तत्कथं संगच्छताम् , 'प्राचुर्ये मयट् इति तु वक्तुमुचितमिति चेत् । अत्राहुः-प्राचुर्य मयट्यपि प्रकृत्यर्थविरोधिनो दुःखस्य लेशतोऽनुवृत्तिलाभात्प्रकृते विकारार्थः पर्यवस्यतीति तेषामाशयः । यद्वा 'नित्यं वृद्ध-' इत्यत्र भाषाग्रहणं नानुवर्तते अनुवृत्तावपि 'भाषायां नित्यम् , अन्यत्र क्वाचित्कः' इत्याश्रित्य मयट् सुसाधः । अथवा 'हेतुमनुष्येभ्यः-' इत्यनुवर्तमाने 'मयट च' इति सूत्रेण आगतार्थे मयट् । विकार इति त्वार्थिकार्थकथनमेवातः शङ्करभगवत्पादोकिरनवद्यैवेति । शरमयमिति । शर दर्भ मृत् कुटी तृण सोम बिल्वज इति शरादिः । एकाचो नित्यमिति । आरम्भसामर्थ्यादेव सिद्धे 'नित्यं वृद्ध-' इति नित्यग्रहणं योगविभागेनान्यत्रापि क्वचिद्विधानार्थम् , तेनैतल्लभ्यत इति भावः । एकाच्वादेव सिद्ध शरादिषु मृच्छब्दपठनं विस्पष्टार्थमित्याहुः । गोश्च पुरीषे । पुरीष न विकारो, नाप्यवयवः । तथापि तस्येदम्' इत्यर्थेऽयं प्रत्ययः विकारावयवयोस्तु
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy