________________
प्रकरणम् २९ ] बालमनोरमा तत्त्वबोधिनीसहिता। [४४५ कारीरम् । १५२२ शम्याः प्लम् । (४-३-१४२) शामीलं भम । विस्वा. न्छीष् । शामीली सक् । १५२३ मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः । (४-३-१४३) प्रकृतिमात्रान्मयड् वा स्याद्विकारावयवयोः । अश्ममयम्, पाश्मनम् । 'अभषय-' इत्यादि किम्-मौदः सूपः । कार्पासमाच्छादनम् । १५२४ शम्याः प्लम् । शमीशब्दो गौरादिङीषन्तः । तस्मात्षष्ठयन्तादवयवे विकारे च प्लञ् स्यादित्यर्थः । षकारलकारावितो। 'अनुदात्तादेश्च' इत्यशोऽपवादः । शामीलं भस्मेति । शम्या विकार इत्यर्थः । शामीली स्रगिति । शम्या विकार इत्यर्थः । वरुणप्रघासेषु शमीमय्यः सचः प्रसिद्धाः । अवयवे तु शामीली शाखा । मयड्वैतयोः। 'अधिकारादेव विकारावयवयोरिति सिद्धरेतयोरिति वचनम् उक्तवक्ष्यमाणापवादविषयेष्वपि पक्षे मयडर्थम्' इति भाष्ये स्पष्टम् । तेन बिल्वमयं बैल्वमित्यादि सिध्यतीत्यभिप्रेत्य आह-प्रकृतिमात्रादिति । सर्वस्याः प्रकृतेरित्यर्थः । अश्ममयमिति । मयटि अन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वम्, नलोपः। श्राश्मनमिति । कल्माषांघ्रिनाम कश्चिद्राजा तत्पत्न्यां वसिष्ठनोत्पानिपातितः । शिशपाशब्दः 'अथ द्वितीयं प्रागीषात्' इति वर्तमाने 'पान्तानां गुर्वादीनाम्' इति मध्योदात्तः । 'स्पदि किंचिञ्चलने' 'अनुदात्तेतश्च हलादेः' इति युच् । कारीरमिति । 'किरतेरीरन्' । नित्स्वरेण करीरशब्दोऽयमाद्युदात्तः। 'कदृभ्यामीषन्' 'शदृभ्यां किच्च' पूर्ववच्छिरीषशब्दोऽप्याद्युदात्तः । विककृतपूलाकयवासशब्दाः 'ग्रामादीनां च' इत्यायुदात्ताः । षित्त्वान्ङीषिति । टित्त्वान्छीबिति तु माधवः । मयड्वैतयोः । भाषायां किम् , खादिरो यूप इति वृत्तिकारः । ननु मयटो वैकल्पिकत्वात्सिद्धमिदमिति चेत् । अत्राहु:-वेदे बह्वचः परस्य मयटोऽर्थान्तर. परत्वमेवेति तात्पर्यग्रहणार्थमेवेदम् । 'घचश्छन्दसि' इति सूत्रस्य 'यच एव' इति नियमार्थत्वे यद्यपीदं गतार्थम् , तथापि 'घचश्छन्दस्येव' इति विपरीतनियमशङ्कानिवृत्त्यर्थं भाषाग्रहणं कृतमिति । अधिकारादेव विकारावयवयो मे एतयोरिति वचनं ये विशेषप्रत्ययाः 'प्राणिरजतादिभ्योऽञ्' इत्येवमादयस्तद्विषयेऽपि यथा स्यादित्येवमर्थम् । कपोतमयम् , लोहमयम् । इह विकारावयवाभ्यां सह प्रत्येकम् 'अभक्ष्याच्छादनयोः' इति सम्बध्यते समासनिर्देशादतो यथासंख्यं न । आश्मनमिति । 'विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः' इति वचनादश्मभेदशब्दे भेदशब्दस्य लोपे अश्मनिति नान्तमवशिष्यते, तथा कल्माषाङ्ग्रे राज्ञो भार्यायां मदयन्त्यां वसिष्ठेनोत्पादितः सुतोऽश्मको नाम, तत्र संज्ञात्वद्योतकस्य कप्रत्ययस्याभावे अश्मन्निति नाम भवति, तस्यावयवे आश्मनं विकारेऽप्याश्मनमित्येव भवति । न च