________________
१८२] सिद्धान्तकौमुदी। [बहुव्रीहिसमासगुडप्रियः, प्रियगुडः । 'गड्वादेः परा सप्तमी ( वा १४२१) गडुकराठः । कचिन । वहेगडुः । ८६६ निषा । (२-२-३६) निष्ठान्तं बहुव्रीही पूर्व स्यात् । कृतकृत्यः । 'जातिकालसुखादिभ्यः परा निष्ठा वाच्या' ( वा १४२२)। सारङ्ग. जग्धी । मासजाता । सुखजाता । प्रायिकं चेदम् । कृतकटः । पीतोदकः । वा त्रयो वेति विग्रहे ‘संख्ययाव्यय-' इति बहुव्रीहिः । ननु 'द्वन्द्वे घि' इत्यतो द्वन्द्वे इत्यनुवृत्तौ 'अल्पाच्तरम्' इति सूत्रभाष्येऽस्य वार्तिकस्य पाठाद् बहुव्रीहौ कथमस्य प्रवृत्तिरित्यत आह-द्वन्द्वेऽपीति । इदं च वार्तिकं द्वन्द्वेऽद्वन्द्वेऽपि प्रवर्तत इत्यर्थः । द्वादशेति । द्वौ च दश च इति द्वन्द्वः । तत्पुरुषे तु शतानां विंशतिः विंशतिशतमित्युदाहार्यम् । 'तदस्मिन्नधिकमिति दशान्ताड्डः' इति सूत्रभाष्ये सहस्राणां शतम् इत्यर्थे शतसहस्रमिति भाष्यकैयटयोः प्रयोगोऽत्र मानमिति शब्देन्दुशेखरे स्थितम् । वा प्रियस्येति । बहुव्रीही पूर्व प्रयोगो वक्तव्य इत्यर्थः। गड्वादेः परा सप्तमीति । बहुव्रीहौ योज्येति वक्तव्यमिति शेषः । गडुकण्ठ इति । गडुः कण्ठे यस्येति विग्रहः । गडुर्नाम ग्रीवादिगतो दुर्मासगोलः । असंज्ञात्वाद् ‘हलदन्तात्-' इत्यलुङ् न । क्वचिन्नेति । व्याख्यानमेवात्र शरणम् । वहेगडुरिति । वहः स्कन्धः, तस्मिन् गडुर्यस्येति विग्रहः । निष्ठा । निष्ठान्तमिति । 'तक्तवतू निष्ठा' इति वक्ष्यति । तदन्तमित्यर्थः । कृतकृत्य इति । कृतं कृत्यं येनेति विग्रहः। उभयोरपि क्रियाशब्दत्वाद् विशेषणत्वे कामचाराद् अन्यतरस्य पूर्वनिपाते प्राप्ते निष्ठाम्तस्य पूर्वनिपातः । जातिकालेति । 'जातिकालसुखादिभ्योऽनाच्छादनात् क्तः' इति स्वरविधिना ज्ञापितमिदमिति भाष्ये स्पष्टम् । जातिपूर्वस्योदाहरणमाहसारङ्गजग्धीति । सारङ्गो जग्धो भक्षितो यया इति विग्रहः । 'अस्वाङ्गपूर्वपदाद्वा' इति ङीष् । कालपूर्वस्योदाहरति-मासजातेति । मासो जातो यस्या इति विग्रहः, टाप् । सुखपूर्वस्योदाहरति-सुखजातेति । सुखं जातं यस्या इति विग्रहः । प्रायिकमिति । व्याख्यानमेवात्र शरणम् । कृतकट इति । कृतः कटो येनेति विग्रहः। अत्र कटत्वस्य जातित्वेऽपि न कृतशब्दस्य परनिपातः । पीतोदक इति । पीतम् उदकं येनेति विग्रहः । उदकत्वस्य जातित्वेऽपि न पीतशब्दस्य परनिपातः । लिमिति भावः । अल्पीयस्या इति । अल्पार्थवाचिकाया इत्यर्थः । गड्वादेरिति । आदिशब्दः प्रकारवाची । तेन पद्मं नाभौ यस्य पद्मनाभः । ऊर्णा नाभौ यस्य, 'ब्यापोः-' इति ह्रखः, ऊर्णनाभ इति सिद्धयतीत्याहुः । जातिकालेति । एतच्च 'जातिकालसुखादिभ्योऽनाच्छादनात्' इत्यनेन ज्ञापितमिति भावः । सारङ्गजग्धीति । सारङ्गो जग्धो यया सा । 'अखागपूर्वपदादा' इति डीप । कथं तर्हि