________________
प्रकरणम् १६) बालमनोरमा-तत्त्वबोधिनीसहिता। [१८१ रुपसंख्यानम्' ( वा १४१६) सर्वश्वेतः । त्रिशुकः । 'मिथोऽनयोः समासे संख्या पूर्व शब्दपरविप्रतिषेधात्' (वा २०४४)। धन्यः । संख्याया अल्पीयस्याः' (वा १४१०) द्विनाः । द्वन्द्वेऽपि । द्वादश । 'वा प्रियस्य' (वा १४२०)। बहुव्रीहेरप्रसक्तेः तत्र सप्तम्यन्तस्य पूर्वनिपातविधिरभित्तिचित्रायितः स्यात् । ततश्च सप्तमीग्रहणाद् अप्रथमान्तोऽपि बहुव्रीहिः क्वचिदस्तीति विज्ञायत इति योज्यम् । तेन 'सच्छास्त्रजन्मा हि विवेकलामः' इत्यादि सिद्धम् । चित्रगुरिति । उभयोरपि प्रथमानिर्दिष्टत्वेन विग्रहे नियतविभक्तिकत्वेन चान्यतरस्य पूर्वनिपाते प्राप्त उत्तरपदविशेषणस्यैव पूर्वनिपातार्थ विशेषणग्रहणमिति भावः। सर्वनामसंख्ययोरिति । बहुव्रीही पूर्वनिपातस्येति शेषः । सर्वश्वेत इति । सर्वः श्वेतो यस्येति विग्रहः । उभयोरपि गुणवचनत्वेन विशेषणविशेष्यभावे कामचराद् अन्यतरस्य पूर्वनिपाते प्राप्ते सर्वनामत्वात् सर्वशब्दस्यैव पूर्वनिपातः। उपसर्जनत्वेऽपि भूतपूर्वगत्या सर्वनामत्वम् । त्रिशुक्ल इति । त्रयः शुक्ला यस्येति विग्रहः । उभयोरपि कामचारेण पूर्वनिपाते प्राप्त संख्यात्वात् त्रिशब्दस्यैव पूर्वनिपातः । द्विशुक्ल इत्यत्र तु सर्वनामत्वादेव सिद्धम् । ननु द्वौ अन्यौ यस्य धन्य इति बहुव्रीही सर्वनामसंख्ययोरन्यतरस्य पाक्षिकः पूर्वनिपातः स्यादित्यत आह-मिथोऽनयोरिति । सर्वनामसंख्ययोरित्यर्थः। संख्या पूर्वमिति । प्रयोज्येति शेषः । शब्दपरेति । एकस्मिन्नेव सूत्रे सर्वनामसंख्ययोः समासोपात्तत्वेऽपि सर्वनामसंख्याशब्दयोः संख्याशब्दस्य पाठतः परत्वमादाय विप्रतिषेधसूत्रप्रवृत्तेरित्यर्थः । संख्याया अल्पीयस्या इति । न्यूनाधिकसंख्यावाचकशब्दानां समासे न्यूनसंख्यायाःपूर्व प्रयोग इति वक्तव्यमित्यर्थः । द्वित्रा इति । द्वौ सप्तमीग्रहणम् । अन्यदा तु तेन विनापि विशेषणत्वादेव सिद्धम् । चित्रगुरिति । न च 'उपसर्जनं पूर्वम्' इत्येवेदं सिध्यतीति वाच्यम् , 'बहुव्रीहौ सप्तमी' इत्युक्ते तककौण्डिन्यन्यायेनोपसर्जनपूर्वत्वस्य बाधापत्तेरतो विशेषणग्रहणं कृतम् । सर्वनामेति । कथं तर्हि 'तः परो यस्मात्स तपरः' इति कथं च 'जहत्वार्था वृत्तिः' इति । इह हि जहत्खं पदं यं स जहत्वः, सोऽर्थो यस्यामिति बहुव्रीहिगर्भो बहुव्रीहिः। तथा च खपरशब्दयोः सर्वनामत्वात्पूर्वनिपातन भाव्यमिति चेत्-अत्राहुः-सूत्रभाष्यप्रयोगात्स्वपरशब्दयोन पूर्वनिपातः, राजदन्तादित्वाद्वा सिद्धमिति । द्विशुक्ल इति । यद्यपि सर्वनामत्वेनैव द्विशब्दस्य पूर्वनिपातत्वं सिध्यति, तथापि त्रिशुक्ल इत्यादि सिद्धये वार्तिके संख्याग्रहणं कृतम् । ननु संख्याया अल्पाच्तरत्वेन 'संख्यासर्वनाम्नोः' इति वाच्ये विपरीतोच्चारणमयुक्तमित्याशङ्कयाह-मिथोऽनयोरिति । विपरीतोच्चारणमेवात्र
१ बहुत्र मूले 'द्विशुक्लः' इत्येव पाठः ।