________________
प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१८३ ६०० वाऽऽहिताग्न्यादिषु । (२-२-३७) प्राहिताग्निः । अग्न्याहितः । श्राकृतिगणोऽयम् । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ' (वा १४२५)। प्रस्युचतः । दण्डपाणिः । कचिन्न । विवृतासिः ।
इति बहुव्रीहिसमासप्रकरणम् ।
अथ द्वन्द्वसमासप्रकरणम् । २० । १०१ चाथै द्वन्द्वः । (२-२-२६) अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते, स द्वन्द्वः । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । परस्परनिरवाऽऽहिताग्न्यादिषु । निष्ठायाः पूर्व प्रयोग इति शेषः । आहिताग्निरिति । आहिता आधानेन संस्कृता अग्नयो येनेति विग्रहः । प्रहरणार्थेभ्य इति । आयुधार्थेभ्य इत्यर्थः । निष्ठायामुदाहरति-अस्यद्यत इति । असिः उद्यतो येनेति विग्रहः । सप्तम्या उदाहरति-दण्डपाणिरिति । दण्डः पाणौ यस्येति विग्रहः । 'निष्ठा' इत्यस्य ‘सप्तमीविशेषणे-' इत्यस्य चायमपवादः । क्वचिन्नेति । व्याख्यानमेवात्र शरणम् । विवृतासिरिति । विवृतः कोशान्निष्कासितः असिर्येनेति विग्रहः । एवंजातीयान्याहितामयादित्वकल्पनया समाधेयानीत्याहुः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां बहुव्रीहिसमासनिरूपणम् ।
अथ द्वन्द्वसमासनिरूपणम्-चार्थे द्वन्द्वः । 'सुबामन्त्रिते' इत्यतः सुबिति, 'अनेकमन्यपदार्थे' इत्यतः अनेकमिति चानुवर्तते । समास इति विभाषा इति चाधिकृतम् । तदाह-अनेकमित्यादिना । कश्चार्थ इत्यत आह-समुच्चयेति । 'चान्वाचयसमाहारेतरेतरसमुच्चये' इत्यमरः । तत्र समुच्चयं निर्वक्ति-परस्परेति। 'चारुस्मितश्चारुहसितः' इत्यादि । अत्राहुः-'नपुंसके भावे क्तः' इति तस्य न पूर्वनिपातः, निष्ठाशब्देन विहितस्यैवेह ग्रहणादिति। क्वचिन्नेति। आहिताग्न्यादित्वकल्पनादनभिधानाद्वेति भावः।
इति तत्त्वबोधिनीव्याख्यायां बहुव्रीहिप्रकरणम् ।
चाथै द्वन्द्वः । 'अनेकमन्यपदार्थे' इत्यतोऽनेकमित्यनुवर्तते 'सुबामन्त्रिते.' इत्यस्मात्सुबपि । 'समासः' इति 'विभाषा' इति चाधिक्रियत एव, तदाह–अनेकं