________________
१८४ ]
सिद्धान्तकौमुदी। [ द्वन्द्वसमासपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः । अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः। मिलितानामन्वय इतरेतरयोगः । समूहः समाहारः । तत्रेश्वरं गुरुं च भजस्व इति समुच्चये, भिक्षामट गां चानय इत्यन्वाचये च न समासोऽसामर्थ्यात् । धवखदिरौ। एकस्मिन्निति । एकस्मिन् क्रियापदे आवृत्ते एकस्य असमस्यमानपदस्य प्रथममन्वयः, तदनन्तरमन्यस्यान्वयो यत्र, तत्र समुच्चयः चार्थ इत्यर्थः । यथा--ईश्वरं गुरुं च भजस्व इति । तत्र हि चशब्दयोगाद् गुरोः ईश्वरसापेक्षत्वम्, न त्वीश्वरस्य गुरुसापेक्षत्वम् , तस्य चकारयोगाभावात् । अत एवात्र एक एव चशब्दः प्रयुज्यते । एवं च ईश्वरं च भजस्व गुरुं च भजस्व इति वाक्यद्वयं पर्यवस्यति । अथान्वाचयं लक्षयतिअन्यतरस्येति । यत्रान्यतरस्य पदस्यैकस्मिन् कियापदे आनुषङ्गिकत्वेन परार्थप्रवृत्तिविषयत्वेनान्वयः, इतरस्य तु पदस्यान्यस्मिन् क्रियापदे उद्देश्यत्वेनान्वयश्च तत्रान्वाचय. श्चार्थ इत्यर्थः । यथा-भिक्षामट गां चानय इति । 'अट गतौ'। भिक्षामटनेन प्राप्नुहीत्यर्थः । भिक्षामट, तदा गौः संगता चेत् तामप्यानय, न तु गवानयने ऐदंपर्येण प्रयतितव्यमिति तात्पर्यार्थः । इतरेतरयोगं लक्षयति-मिलितानामिति । परस्परापेक्षितानां समुदितानामेकस्मिन् क्रियापदेऽन्वयो यत्र, तत्रेतरेतरयोगः परस्परसाहचर्य चार्थः प्रत्येतव्य इत्यर्थः । यथा धवश्च खदिरश्च धवखदिराविति । अत्र परस्परसाहित्यसूचनाय चकारद्वयप्रयोगः । अथ समाहारं लक्षयति-समूहः समाहार इति । परस्परसाहित्यमित्यर्थः । यथा संज्ञापरिभाषयोः समूहः संज्ञापरिभाषमिति । तत्रेतरेतरयोगद्वन्द्वै साहित्यं द्रव्यविशेषणम् , यथा धवखदिरौ छिन्द्धीति, समुदिताविति गम्यते । समाहारद्वन्द्वे तु समूहो विशेष्यम् , यथा संज्ञापरिभाषमिति । तयोः समूह इति गम्यते । संज्ञापरिभाषमधीते इत्यादौ समूहस्य क्रियान्वयस्तु समूहिद्वारा बोध्य इत्यलम् । तत्रेति । तेषु चार्थेषु समुच्चयेऽन्वाचये च न द्वन्द्वसमास इत्यन्वयः। ईश्वरं गुरुं च भजस्वेति । समुच्चयोदाहरणमिदम् । भिक्षामट गां चानयेत्युदाहरणं चानुपदमेव व्याख्यातम् । असामर्थ्यादिति । ईश्वरं गुरुं च इयत्रोक्तरीत्या सुबन्तमित्यादि । चार्था इति । चशब्दद्योत्या इत्यर्थः । एकस्मिन्निति । भजनादावित्यर्थः । ईश्वरं गुरुं च भजस्वेति । क्रियायां द्रव्ययोः समुच्चयोऽयम् । तथा राज्ञो गजश्चाश्वश्चेति द्रव्ये द्रव्ययोः समुच्चयः । पटः शुक्लो रक्तश्चेति द्रव्ये गुणयोः। रक्तः पटः कुण्डलं चेति गुणे द्रव्ययोरित्यूह्यम् । भिक्षामट गां चानयेति । अत्र ह्यदर्शनाद्गामनानयन्नपि भिक्षामटत्येव । अनटंस्तु भिक्षां न गामानयति । तथा अटन्नपि नान्विष्य गामानयति । अतो भिक्षाटनस्यैव प्राधान्यं गवानयनन्य त्वानुषङ्गिकता । असामर्थ्यादिति । एकार्थीभावाभावादित्यर्थः । तथाहि बहुव्रीहिघटकपदानां कर्मा