________________
प्रकरणम् २०] बालमनोरमा तत्त्वबोधिनीसहिता। [१८५ संज्ञापरिभाषम् । अनेकोलेोतृपोतनेष्टोद्वातारः। द्वयोईयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे तु होतापोतानेष्टोद्वातारः। ६०२ राजदन्तादिषु परम् । (२-२-३१) एषु ईश्वरगुरुशब्दयोः परस्परनिरपेक्षयोरावृत्ते भजस्वेति पदे क्रमेणान्वयात् परस्परमन्वयाभावादसामर्थ्यम् । भिक्षामट गां चानय इत्यत्र तु भिक्षागवोरटने आनयने च क्रमेण परस्परवानिभिज्ञयोरेवान्वयात् परस्परान्वयाभावादसामर्थ्य स्पष्टमेव । ततश्च इतरे. तरयोगसमाहारयोरेव चार्थयोः परस्परसाहित्यसत्त्वात् समर्थत्वेन द्वन्द्वसमासः । विस्तरस्तु गञ्जूषायां द्रष्टव्यः । इतरेतरयोगमुदाहरति-धवखदिराविति । धवश्च खदिरश्चेति द्वन्द्वः । धवो वृक्षविशेषः, खदिरः प्रसिद्धः, तौ समुदिताविति बोधः । समाहारे तूदाहरति-संक्षेति । संज्ञा च परिभाषा च तयोः समाहार इति विम्हः । समाहारस्यैकत्वादेकवचनम् । ‘स नपुंसकम्' इति नपुंसकत्वम् । ननु 'चार्थे द्वन्द्वः' इत्यत्र 'सुप्सुपा' इत्यनुवृत्त्यैव धवखदिरावित्यादिसिद्धरनेकग्रहणानुवृत्तिर्व्यर्थेत्यत
आह–अनेकोक्लेरिति । होतृपोत्रिति । होता च पोता च नेष्टा च उद्गाता च इति विग्रहे बहूनामपि द्वन्द्वार्थमनेकग्रहणमिति भावः । 'आनवृतो द्वन्द्वे' इति नेष्टशब्दस्यैव उत्तरपदपरकत्वाद् आनङ् ; न तु होतृपोतृशब्दयोरपि, उत्तरपदस्य मध्यमपदव्यवहितत्वेन होतृपोतृशब्दयोरुत्तरपदपरकत्वाभावात् । ननु तर्हि होतापोतानेष्टोद्गातार इति कथमित्यत आह-द्वयोरिति । होता च पोता चेति द्वयोर्द्वन्द्वः। होतृशब्दस्य आनङ् । ततश्च नेष्टा च उद्गाता चेति द्वयोर्द्वन्द्वः । नेष्ट्रशब्दस्यानङ् । ततो होतापोतारौ च नेष्टोद्गातारौ चेति द्वन्द्वद्वयगर्भो द्वन्द्वः । तत्र नेष्टोद्गातृशब्दे उत्तरपदे होतापोतृशब्दस्य आनङित्यर्थः । आनङि ङकार इत् । ङित्त्वादन्तादेशः। अकार उच्चारणार्थः । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नस्य लोपः । नेष्टोद्गातृशब्दे द्यन्तर्भावेणेव द्वन्द्वघटकपदानां चार्थान्तर्भावेण एकार्थीभाव आवश्यकः । 'समर्थः पदविधिः' इति परिभाषितत्वात् 'चाथै द्वन्द्वः' इत्युक्तेश्च । न चेतरेतरान्वये परस्परनिरपेक्षाणामेकार्थीभावः संभवति, येन समुच्चयान्वाचयावेकार्थीमावान्तर्भूतौ स्याताम् । ततश्चेतरेतरयोगे समाहारे च परस्परसाहित्यसत्त्वात्समासो भवति, न तु समुच्चयान्वाचययोः । परं त्वितरेतरयोगे साहित्यं विशेषणं द्रव्यं तु विशेष्यम् , समाहारे तु साहित्यं प्रधानं द्रव्यं विशेषणमिति विवेक्तव्यम् । ननु नीलोत्पलमित्यादौ चशब्दान्तर्भावण विग्रहदर्शनादेकार्थीभावसत्त्वाच्च द्वन्द्वो दुर्वारः स्यात् । मैवम् , 'विशेषणं विशेष्येण-' इति सामानाधिकरण्ये विहितया तत्पुरुषसंज्ञया द्वन्द्वसंज्ञाया बाधात् । तस्यास्त्वसामानाधिकरण्ये सावकाशत्वात् । सामानाधिकरण्याभावविवक्षायां तु 'प्रमाणप्रमेय ' इत्यादाविव नीलोत्पलादावपि द्वन्द्वे इष्टापत्तिरेव । होतृपोत्रिति । उत्तरपदपरत्वा