________________
१८६ ]
सिद्धान्तकौमुदी ।
[ द्वन्द्वसमास
पूर्वप्रयोगाहं परं स्यात् । दन्तानां राजा राजदन्तः । 'धर्मादिष्वनियमः ' ( वा १४१८ ) अर्थधम, धर्मार्थौ । दम्पती, जम्पती, जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते । श्राकृतिगणोऽयम् । ६०३ द्वन्द्वे घि। (२-२-३२) द्वन्द्वे विसंज्ञं पूर्व स्यात् । हरिश्च हरश्च हरिहरौ । ' अनेकप्रासावेकत्र नियमो ऽनियमः शेषे' ( वा १४१० ) हरिगुरुहराः - हरिहरगुरवः । ६०४ श्रजाद्यदन्तम् । श्राद्गुणश्च । राजदन्तादिषु परम् । 'उपसर्जनं पूर्वम्' इत्यनुवर्तते । तदाहएष्विति । राजदन्तादिष्वित्यर्थः । पूर्वप्रयोगार्हमित्यतः प्राग् उपसर्जनमिति शेषः । राजदन्त इति । दन्तशब्दस्य षष्ठीतत्पुरुषेऽप्रधानतयोपर्सजनत्वेऽपि परनिपातः । इह गणे राजदन्ताग्रे वरणादिशब्दास्तत्पुरुषाः, विष्वक्सेनार्जुनादयो द्वन्द्वाश्च पठिताः, अतो द्वन्द्वप्रकरणे तदुपन्यासः । विष्वक्सेनार्जुनावित्यत्र 'अजाद्यदन्तम्' इत्यर्जुनशब्दस्य पूर्वनिपाते प्राप्ते परनिपातः । धर्मादिष्व नियम इति । गणसूत्रमिदम् । अन्यतरस्य पूर्वनिपात इत्यर्थः । अर्थधर्माविति । अजाद्यदन्तशब्दस्य पूर्वनिपातनियमे प्राप्ते तदनियमो वक्तव्य इत्यर्थः । निपात्यत इति । पाक्षिको राजदन्तादिगण इत्यर्थः । पत्युरभ्यर्हितत्वेऽपि परनिपातश्च । आकृतिगणोऽयमिति । वृत्तौ तु कृत्स्नोऽयं गणः पठितः । द्वन्द्वे घि । पूर्वमित्यनुवर्तते । तदाह – पूर्व स्यादिति । हरिहराविति । हरिशब्दस्य घित्वात् पूर्वनिपातः । ननु हरिहर - गुरव इत्यत्र गुरुशब्दस्यापि घित्वात् पूर्वनिपातः स्यादित्यत आह- अनेकेति ।
कस्य घिसंज्ञकपदस्य द्वन्द्वप्राप्तौ सत्यामेकस्य घिसंज्ञकस्य पूर्वनिपातनियमः । शेषेऽन्यस्मिन् घिसंज्ञकपदविषये पूर्वनिपातस्य विकल्प इत्यर्थः । इदम् 'अल्पाच्तरम्' इति सूत्रे भाष्ये स्पष्टम् । जातिपक्षे तावद् श्राकृति पुरस्कृत्य सर्वासु व्यक्तिषु तत्तच्छास्त्राणि सकृदेव प्रवर्तन्ते, सकृच्छ्रुतत्वात् । न तु प्रतिव्यक्ति, तथा सति प्रतिव्यक्तया - वृत्तिप्रसङ्गात् । ततश्च अनेकधिसंज्ञकसमवाये एकस्य घिसंज्ञकस्य पूर्वनिपाते सति पुनः शास्त्रं न प्रवर्तते, सकृत्प्रवृत्त्यैव शास्त्रस्य शान्ताकाङ्क्षत्वात् । व्यक्तिपक्षस्तु नेहाश्रीयते, लक्ष्यानुरोधादित्याहुः । हरिहर गुरव इति । हरगुरुशब्दयोर्न नियम इति भावः । भावादनयोरानङ न । राजदन्तादिषु । इह द्वन्द्वतत्पुरुषयोः पाठेऽपि 'अर्थधम' इत्याद्यभिप्रायेणास्य द्वन्द्वेषूपन्यासः । द्वन्द्वे घि । ' अनेकम् -' इति सर्वेषामेव प्रथमानिर्दिष्टत्वेनोपसर्जनत्वाविशेषादनियमप्राप्तावयमारम्भः । यत्र त्वनेकं ध्यन्तं तत्र द्वयोरपि पूर्वनिपातनियमः स्यादत आह— अनेकप्राप्तावेकत्रेति । अत्र व्याचख्युःप्रकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, न प्रतिव्यक्तत्यावृत्त्या । तत्रैकस्य पूर्वनिपाते सति जातौ लक्षणं प्रवृत्तमेवेति न पुनः प्रवर्तते । व्यक्तिपक्षस्त्विह नाश्रीयते लक्ष्या
-