________________
प्रकरणम् २० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१८७ (२-२-३३ ) इदं द्वन्द्वे पूर्व स्यात् । ईशकृष्णौ । बहुवनियमः । अश्वरथेन्द्राः, इन्द्राश्वरथाः। 'ध्यन्तादजाचदन्तं विप्रतिषेधेन' (वा १४२६ ) इन्द्राग्नी। १०५ अल्पाच्तरम् । (२-२-३४) शिवकेशवौ । 'ऋतुनक्षत्राणां समाचराणामानुपूर्येण' (वा १४२१) हेमन्तशिशिरवसन्ताः। कृत्तिकारोहिण्यौ । समाक्षराणां किम्-प्रीष्मवसन्तौ । 'लध्वधरं पूर्वम्' (वा १४१३) कुशकाशम् । 'अभ्यहितं च' ( वा १४१२) । तापसपर्वतौ । 'वर्णानामानुपूष्यण' (वा १४१५) अजाद्यदन्तम् । इदमिति । अजादित्वे सत्यदन्तमित्यर्थः । ईशकृष्णाविति । अत्र कृष्णस्यादन्तत्वेऽप्यजादित्वाभावान्न पूर्वनिपातः । बहुष्वनियम इति । वक्तव्य इति शेषः । ननु इन्द्राग्नी इत्यत्र घित्वादग्निशब्दस्य पूर्वनिपातः किं न स्यादित्यत आह--ध्यन्तादिति । ध्यन्तशब्देन 'द्वन्द्वे घि' इति सूत्रं विवक्षितम् । ल्यब्लोपे पञ्चमी । विप्रतिषेधसूत्रेण 'द्वन्द्वे घि' इत्येतद् बाधित्वा 'अजाद्यदन्तम्' इति प्रवर्तत इत्यर्थः । अल्पाच्तरम् । अल्पः अल्पसंख्यः अच् यस्य तदल्पाच् , तदेवाल्पाच्तरम् । अत एव निपातनात् स्वार्थे तरप्, कुत्वाभावश्च । अल्पसंख्याच्वं पदं द्वन्द्वे पूर्व प्रयोज्यमित्यर्थः । शिवकेशवाविति । हरिहरयोरन्यतरोत्कर्षवादस्य पाषण्डवादत्वादिति भावः । यदि तु 'द्विवचनविभज्य-' इत्यतिशयार्थे तरप् स्यात् , तदा धवखदिरपलाशा इत्यत्र बहुषु न स्यादिति प्राञ्चः । शब्देन्दुशेखरे तु प्रकर्षार्थक एवाय तरप् इति स्थितम् । ऋतुनक्षत्राणामिति । समानसंख्याच्कानाम् ऋतूनां नक्षत्राणां च द्वन्द्वे अानुपूर्येण क्रमेण निपातो वक्तव्य इत्यर्थः । हेमन्तशिशिरवसन्ता इति । त्रयाणामृतूनामानुपूयं लोकप्रसिद्धम् । एवं कृत्तिकादिनक्षत्राणामपि । ग्रीष्मवसन्ताविति । विषमाक्षरत्वान्न वसन्तस्य पूर्वनिपातः। किंतु अल्पाच्त्वाद् ग्रीष्मस्य पूर्वनिपातः । लघ्वक्षरं पूर्वम् । लघु अक्षरमच् यस्य तद् द्वन्द्वे पूर्व प्रयोज्यमिति वक्तव्यमित्यर्थः । कुशकाशमिति । समाहारद्वन्द्वोऽयम् । अभ्यर्हितं चेति । श्रेष्ठः पूर्वः प्रयोज्य इति वक्तव्यमित्यर्थः। तापसपर्वताविति। नुरोधादिति । हरिहरगुरव इति । हरगुरुशब्दयोन नियमः प्रवर्तत इति भावः । अजाद्यदन्तम् । 'समुद्रात्राद्धः' 'लक्षणहेत्वोः क्रियायाः' इत्यादिनिर्देशादनित्यमिदं प्रकरणम् । तेन ‘स सौष्ठवौदार्यविशेषशालिनीम्' इति भारविप्रयोगः संगच्छते। अल्पान्तरम् । अतएव निपातनात् खार्थे तरप कुत्वचुत्वयोरभावश्च । यदि तु प्रकर्षे तरप् स्यात् तदा द्वयोरेव नियमः स्यात् । द्विवचनान्तोपपदत्वविषय एव तरपो विधानात् । ततश्च धवखदिरपलाशा इत्यादौ बहुषु नियमो न स्यात् । ऋतुनक्षत्राणामिति । ऋतूनामानुपूर्व्य प्रादुर्भावकृतं नक्षत्राणां तूदयकृतं च । अभ्यर्हितं चेति ।