________________
१८८]
सिद्धान्तकौमुदी। [द्वन्द्वसमासब्राह्मणक्षत्रियविदछुद्राः । 'भ्रातुायसः' (वा १६१६) युधिष्ठिरार्जुनौ । ६०६ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् । (२-४-२) एषां द्वन्द्व एकवस्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकम् । रथिकाश्वारोहम् । समाहारस्यैकत्वादेकत्वे पर्वतस्य स्थावरजन्मतया तापसस्य तदपेक्षया अभ्यर्हितत्वं बोध्यम । भाष्ये तु मातापितरावित्युदाहृतम् । 'गर्भधारणपोषाभ्यां पितुर्माता गरीयसी' इत्यादिस्मृतेरिति तदाशयः । वर्णानामानुपूयेणेति । एषां क्रमेण पूर्वनिपातः । 'ब्रह्मक्षत्रियविट्छूद्रा वर्णाः' इत्यमरः । तेषामानुपूयं तु 'प्रजापतिरकामयत प्रजायेयेति, स मुखतस्त्रिवृत्तं निरमिमीत' इत्यादितैत्तिरीयब्राह्मणादिसिद्धम् । भ्रातुायस इति । ज्येष्ठभ्रातुः पूर्वनिपात इत्यर्थः । अत्र 'द्वन्द्वे घि' 'अजाद्यदन्तम्' इति विधिद्वयम् 'अल्पान्तरम्' 'लघ्वक्षरं पूर्वम्' 'ऋतुनक्षत्राणाम्' 'अभ्यर्हितं च' 'भ्रातुायसः' इति विधिभिः परत्वाद् बाध्यते । भाष्ये तु सर्वत एवाभ्यर्हितं पूर्वनिपातमिति मतान्तरं स्थितम् । द्वन्द्वश्व प्राणि । प्राणितूर्यसेनाजानीति द्वन्द्वगर्भषष्ठीसमासः । द्वन्द्वान्ते श्रूयमाणः अङ्गशब्दः प्रत्येकं संबध्यते इत्यभिप्रेत्य आह-एषामिति । प्राण्यङ्गानां तूर्याङ्गानां सेनाङ्गानां चेत्यर्थः । द्वन्द्व इति। समाहारद्वन्द्व इत्यर्थः । 'द्विगुरेकवचनम्' इति पूर्वसूत्रे 'समाहारग्रहणं कर्तव्यम्' इति वार्तिकस्यात्राप्यनुवृत्तेः । एकवदिति । एकवचनमित्यनुवर्तते । एकं वक्तीत्येकवचनम् । कर्तरि ल्युट । सामान्याभिप्रायं नपुंसकम् । पाणिपादमिति । पाण्योः पादयोश्च समाहार इति विग्रहः । अत्र समाहारे एकवत्त्वं ‘स नपुंसकम्' इति नपुंसकत्वं च । पाण्योः 'वासुदेवार्जुनाभ्यां वुन्' इति निर्देशेनेदं ज्ञाप्यत इति चतुर्थे भाष्यम् । अल्पान्तरम्' 'अजाद्यदन्तम्' इति सूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तमकुर्वन् ज्ञापन सर्वतोऽभ्यहिंतं पूर्वमिति तत्रैव सूत्रे वक्ष्यते । युधिष्ठिरार्जुनाविति । इन्द्रपुत्रत्वाद्विष्णो. रंशत्वाच्छूरत्वाद्वा अभ्यर्हितत्वमर्जुनेऽप्यस्तीति न तेन नियमः सिध्यतीति भावः । द्वन्द्वश्च प्राणि । प्राणितूर्यसेनानामङ्गानीति बहुवचनान्तेनाङ्गशब्देन षष्ठीसमासः । अङ्गशब्दश्च प्रत्येकमन्वेति । तेन प्राण्यङ्गानां प्राण्यङ्गेरेव, तूर्याङ्गानां तृर्याङ्गैरेव, सेनागानां सेनाडैरेव यो द्वन्द्वः स एकवद्भवति, न तु व्यतिरेकेण । तेनेह न-मार्दगिकाश्वारोहौ । अत्र प्राणिसेनयोरङ्गं नामावयवः । तूर्यस्य त्वङ्गं नामोपकारकं बोध्यम् । एषां द्वन्द्व इति । प्राण्यङ्गानां द्वन्द्वः, तूर्याङ्गानां द्वन्द्वः, सेनाङ्गानां द्वन्दः, इत्यर्थः । 'द्विगुरेकवचनम्' इत्यत एकवचनं वर्तते । तत्रैकं वक्तीति व्युत्पत्त्या एकत्वविशिष्टः समाहाररूपो योऽर्थस्तत्प्रतिपादकः स्यादित्यर्थ मन्वानः फलितमाह-एकवत्स्यादिति । पाणिपादमिति । यद्यप्यत्र 'जातिरप्राणिनाम्' इत्येव सिद्धम् , तथापि