________________
प्रकरणम् २० ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ १८६
सिद्धे नियमार्थं प्रकरणम् 1 प्राण्यङ्गादीनां समाहार एव यथा स्यात् । ६०७ अनुवादे चरणानाम् । (२-४-३) चरणानां द्वन्द्व एकवस्स्यात्सिद्धस्योपन्यासे । ‘स्थेणोर्लुङीति वक्रव्यम्' ( वा १५३५-१५३६ ) । उद्गात्कठकापादयोश्च प्राण्यवयवत्वात् प्राण्यङ्गोदाहरणमिदम् । अथ तूर्याद्वन्द्वे उदाहरतिमार्दङ्गिक पाणविकमिति । मृदङ्गपणवशब्दौ वाद्यविशेषपरौ । इह तु तद्वादनेऽपि वर्तेते । मृदङ्गवादनं शिल्पमस्येत्यर्थे ' शिल्पम्' इति ठक् । मार्दङ्गिकपाणविकयोः समाहार इति विग्रहः । तूर्याङ्गत्वादेकवचनम् । तूर्याङ्गत्वं च तद्वादकतया बोध्यम् । 'स नपुंसकम्' इति नपुंसकत्वम् । सेनाङ्गद्वन्द्वे उदाहरति — रथिकाश्वारोहमिति । रथेन चरन्तीति रथिकाः । 'पर्पादिभ्यः ष्ठन् । रथिकानामश्वारोहाणां च समाहार इति विग्रहः । सेनावयवत्त्रादेकवत्त्वम् । पूर्ववन्नपुंसकत्वम् । ननु समाहारद्वन्द्वे समाहारस्य विशेष्यत्वात् तस्य चैकत्वादिदं सूत्रं व्यर्थमित्यत आह- समाहारस्यैकत्वादिति । समाहार एवेति । न त्वितरेतरयोगः । एषां द्वन्द्व नियमार्थ सूत्रमित्यर्थः । एवमुतरसूत्राण्यपि समाहार एवेति नियमार्थानि । न चेतरेतरयोगद्वन्द्वे एषामेकवत्त्वविधानार्थमिदं सूत्रमस्तु । तथा च पाणिपाद इति पुंल्लिङ्गमेकवचनान्तं रूपं फलमिति वाच्यम्, 'समाहार ग्रहणं कर्तव्यम्' इति पूर्वसूत्रस्थवार्तिकस्यात्रानुवृत्तेः, एकवद्भावप्रकरणेऽस्मिन् सर्वत्र समाहारद्वन्द्वानामेव भाष्ये उदाहृतत्वाच्च । न च रथिकमार्दङ्गिकावित्यादावतिप्रसङ्गः शङ्कयः, प्राण्यङ्गानां परस्परद्वन्द्व एकवत्, तूर्याङ्गानां परस्परद्वन्द्व एकवत्, सेनाङ्गानां परस्परद्वन्द्व एकवदित्यभ्युपगमादिति भाष्ये स्पष्टम् | अनुवादे चरणानाम् । चरणानां द्वन्द्व एकवदिति । शाखाध्येतृविशेषाश्चरणाः । तद्वाचिनां परस्परद्वन्द्व एकवदित्यर्थः । अनुवाद इत्येतद्व्याचष्टे - सिद्धस्योपन्यास इति । श्रवगतार्थस्य
1
द्रव्यप्राधान्येऽपि भवत्विति प्राणिग्रहणमित्येके प्राणिपणवाविति व्यतिकरे मा भूदिति नियमार्थं वचनमित्य॑न्ये । मार्दङ्गिकेति । मृदङ्गवादनं शिल्पमस्येत्यर्थे 'तदस्य शिल्पम्' इति ठक् । एवं पाणविक इत्यपि । रथिकाश्वारोहमिति । रथेन चरन्तीति रथिकाः । 'पर्पादिभ्यः ष्ठन्' इति ष्ठन् । ते चाश्वारोहाश्च तेषां समाहारः । ननु 'चार्थे द्वन्द्वः' इत्यनेन समाहारद्वन्द्वः सिद्धः, तस्य चैकत्वादेकवचनमपि सिद्धमिति किमनेने - त्याशङ्कयाह — नियमार्थमिति । समाहार एवेति । समाहारे प्राण्यङ्गादीनामेवेति विपरीतनियमोऽत्र न भवति, 'तिष्यपुनर्वखो:-' इति सूत्रे बहुवचनग्रहणात् । तद्धि समाहारे एकवचनस्य द्विवचनं मा भूदिति कृतम् । अन्यथा तिष्यपुनर्वस्वितिन स्यादिति । एवं च 'द्वन्द्वश्च प्राणितूर्य -' इति प्रकरणबहिर्भूतानामपि समाहारद्वन्द्वो भवत्येव, तेन ‘सर्वो द्वन्द्वो विभाषैकवद्भवति' इति पठ्यमानं नापूर्वं वचनमिति ज्ञेयम् ।