SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १६०] सिद्धान्तकौमुदी। [ द्वन्द्वसमासलापम् , प्रत्यष्ठास्कठकौथुमम् । ६०८ अध्वर्युक्रतुरनपुंसकम् । (२-४-४) यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्वमेधम् । अध्वर्युक्रतुः किम्-इषुवज्रौ, सामवेदे विहितौ । अनपुंसक किम्राजसूयवाजपेये, अर्धर्चादी । ६०६ अध्ययनतोऽविप्रकृष्टाख्यानाम् । प्रतिपादन इत्यर्थ । स्थणोरिति । लुडीति प्रत्येकमन्वयाभिप्रायमेकवचनम् । लुङन्ते स्थाधातौ लुङन्ते इराधातौ च प्रयुज्यमान एव अनुवादे चरणानां द्वन्द्व एकवदिति वक्तव्यमित्यर्थः । उदगादिति । प्रादुरभूदित्यर्थः । इराधातो ङि रूपम् । कठकालापमिति । कठेन प्रोक्कमधीयत इति कठाः । वैशम्पायनान्तेवासित्वागिणनिः । तस्य 'कठचरकात्' इति लुक् । ततोऽध्येतृप्रत्ययस्य 'प्रोक्ताल्लुक्' इति लुक् । कलापिना प्रोक्तमधीयते इति कालापाः। प्रोक्तार्थे 'कलापिनोऽण' । 'सब्रह्मचारिपीठसर्पि ' इत्यादिना टिलोपः । ततोऽध्येत्रणः 'प्रोक्ताल्लुक्' इति लुक् । कठानां कालापानां च समाहार इति विग्रहः । प्रत्यष्ठादिति । प्रतिपूर्वात् स्थाधातोर्लुङि रूपम् । कठकौथुममिति । कठेन प्रोक्तमधीयत इति कठाः । कौथुमिना प्रोक्तमधीयत इति कौथुमाः । प्रोक्तेऽर्थे 'तेन प्रोक्तम्' इत्यण । 'सब्रह्मचारि-' इत्यनेन टिलोपः । ततोऽध्येत्रणो लुक् । कठानां कौथुमानां च समाहार इति विग्रहः । यदा कठा कालापाश्च उदिताः, यदा कठाः कौथुमाश्च प्रतिष्ठिताः, तदा किञ्चिदिदं वक्तव्यमिति कृतसंकेतयोरिदं वाक्यद्वयम् । अत्रोदयप्रतिष्ठयोः पूर्वसिद्धयोरनुवादादेकवत्वम्।स्थेणोः किम् ? अभूवन् कठकालापाः । लुङि किम् ? अतिष्ठन् कठकालापाः । अध्वर्युक्रतुः। अध्वर्युशब्दोऽत्राध्वर्युकर्मविधायकयजुर्वेदपरः, तदाह-यजुर्वेद इति । अर्काश्वमेधमिति । अर्को महाक्रतुः । अश्वमेधो नाम प्रसिद्धः । उभौ यजुर्वेदविहितक्रतू । अर्कस्य चाश्वमेधस्य च समाहार इति विग्रहः । इषुवज्राविति । ऋतुविशेषावेतौ न यजुर्वेदविहिताविति भावः । तर्हि कस्मिन् वेदे विहितावित्यत आह–सामेति । राजसूयवाजपेये इति । एतयोर्यजुर्वेदविहितत्वेऽपि नपुंसकत्वान्नैकवत्त्वमिति भावः । राजसूयवाजपेययोः चरणानामिति । शाखाध्येतृवाचिनामित्यर्थः । स्थणोरिति । 'टा गतिनिवृत्ती' 'इण गतौ' स्थाप्रकृतिक इण्प्रकृतिके लुङन्ते उपपदे सतीत्यर्थः । स्थेणोः किम् , अभूवन् कठकालापाः । लुङि किम् , तिष्ठन्तु कठकालापाः । उदगादिति । इह यदा कठेषु कालापेषु च प्रतिष्ठितेषु उदितेषु चावाभ्यां तत्र गन्तव्यमिति संकेतयित्वा तत्संकेतं विस्मृत्यासीनं प्रतीदमुच्यते । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वारिणनिः । तस्य 'कठचरकात्-' इति लुक् । अध्येत्रणस्तु 'प्रोक्ताल्लुक्' इति लुक् । 'कलापिनोऽण्' 'सब्रह्मचारी-' इत्याद्युपसंख्यानाहिलोपः । यजुरिति । सूत्रे
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy