________________
प्रकरणम् २० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६१
(२-४-५) अध्ययनेन प्रत्यासन्ना श्राख्या येषां तेषां द्वन्द्व एकवत् । पदकक्रमक । ६१० जातिरप्राणिनाम् । ( २-४-६) प्राणिवर्जजातिवाचिनां द्वन्द्व एकवत् धानाशष्कुलि । प्राणिनां तु विट्छूद्राः । द्रव्यजातीयानामेव, नेह – रूपरसौ, गमनाकुञ्चने । जातिप्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु बदरापुँल्लिङ्गतया प्रसिद्धेराह — अर्धर्चादी इति । अध्ययनतः । अविप्रकृष्टाख्यानामिति च्छेदः । अध्ययनत इति तृतीयार्थे तसिः । तदाह - श्रध्ययनेन प्रत्यासन्नेति । संनिकृष्टेत्यर्थः । पदकक्रमकमिति । पदान्यधीयते पदकाः । क्रमान् अधीयते क्रमकाः । ' क्रमादिभ्यो वुन्' । पदकानां क्रमकाणां च समाहार इति विग्रहः । पदाध्ययनानन्तरं क्रमाध्ययनमित्यध्ययनगता प्रत्यासत्तिरध्येतर्यारोप्यत इति भावः । पदक्रममिति नोदाहृतम्, 'जातिरप्राणिनाम्' इत्येव सिद्धेः । तदध्येतृत्वे तु न जातिरिति भावः । जातिरप्राणिनाम् । जातिरिति षष्ठीबहुवचनस्थाने व्यत्ययेन प्रथमा, जातिवाचिनामित्यर्थः । धानाशष्कुलीति । धानाश्च शष्कुल्यश्च तासां समाहार इति विग्रहः । जातिवाचित्वादेकवस्वम्, नपुंसकत्वाद्ध्रस्व इति भावः । विट्छूद्रा इति । विशश्च शूद्राश्चेति विग्रहः । द्रव्यजातीयानामेवेति । अप्राणिनामिति पर्युदासे सति नञिवयुक्तन्यायादिदं लभ्यत इति भावः । रूपरसाविति । गुणगतजातिवचनावेतौ । गमनाकुञ्चने इति । क्रियागतजातिविशेषवाचिनावेतौ । ननु बदर्याः फलानि बदराणि आमलक्याः फलान्यामलकानि, 'फले लुक्' इति विकारप्रत्ययस्य लुकि 'लुक्तद्धितलुकि' इति स्त्रीप्रत्ययस्य लुक् । फलत्वव्याप्यअध्वर्युशब्दो यजुर्वेदलक्षक इति भावः । पदकेति । पदान्यधीते पदकः । ' क्रमादिभ्यो वुन् । एवं क्रमकोऽपि । पदान्यधीत्य क्रमोऽध्येतव्य इति स्पष्टा प्रत्यासत्तिः । अध्ययनतः किम्, पितापुत्रौ । श्रविप्रकृष्टेति किम्, याज्ञिकनैयायिकौ । जातिर । जातिवाच्यवयवकद्वन्द्वोऽपि जातिरित्युपचर्यत इत्याशयेनाह - जातिवाचिनामिति । विट्शूद्रा इति । जातिप्राधान्येऽपि बहुवचनमुपपद्यते 'जात्याख्यायामेकस्मिन् - ' इति विधानात् । तेनात्र व्यङ्गविकलं नेति भावः । द्रव्यजातीयानामेवेति । 'अप्राणिनाम्' इति पर्युदासात् 'नञिवयुक्त - ' न्यायेन द्रव्यजातीयानामेकवद्भावो, न तु गुणक्रियाजातीयानामिति भावः । जातिः किम्, नन्दकपाञ्चजन्यौ | संज्ञाशब्दावतौ । जातिप्राधान्य एवेति । एतच्च जातिग्रहणाल्लब्धम् । अन्यथा पर्युदासेनैव जात्युपसर्जनद्रव्यवाचिनोऽपि ग्रहणोपपत्तौ किं तेनेति भावः । द्रव्यविशेषेति । नन्वेवं 'रञ्जिता नु विविधास्तरुशैलाः' इति भारविप्रयोगः संगच्छत एवेति किमिति तरुसहिताः शैला इति मनोरमायां समर्थितमिति चेत् — अत्राहुः - सकलतरुशैलरञ्जनं तत्र