________________
१९२]
सिद्धान्तकौमुदी। [ द्वन्द्वसमासमलकानि । १११ विशिष्टलिङ्गो नदीदेशोऽग्रामाः। (२-४-७) ग्रामवर्जनदीदेशवाचिनां भिन्नलिङ्गानां समाहारे द्वन्द्व एकवत्स्यात् । उद्धयश्च इरावती च जातिविशेषवाचिनावेतौ। ततश्च बदराणि चामलकानि च बदरामलकं बदराम लकानीति कथं रूपद्वयम् , 'जातिरप्राणिनाम्' इत्येकवत्त्वस्य नित्यत्वादित्यत श्राह-जातिप्राधान्य इति । व्यक्तिविशेषानादरेण सकलतत्तब्यक्त्यनुस्यूतजातिविवक्षायामित्यर्थः । घटमानयेत्यादौ हि घटादिशब्दानामाकृत्यधिकरणन्यायेन घटत्वादिजातिरर्थः । जातेश्च निराश्रयाया उपस्थित्यसंभवाद् आश्रयभूतव्यक्त्याकाङ्क्षायामविशेषात् कृत्स्नाप्युपस्थिता । तत्र घटमानयेत्यादिप्रयोगेषु जातेरतीतानागतवर्तमानकृत्स्नव्यक्तीनां च क्रियान्वयासंभवाद् व्यक्तिविशेषमेव कञ्चिदादाय क्रिया विश्राम्यति । इदमेव च जातेः प्राधान्यं तत्तज्जात्याश्रयसकल तत्तयक्तिबोधकत्वात्मकम् । घटाः शुक्ला इत्यादिप्रयोगेषु पदान्तरसमभिव्याहारा देवशायक्तिविशेषानेव जातिरुपस्थापयतीति जातेरप्राधान्यम् ,जात्याश्रयसकलव्यक्त्यनुपस्थापकत्वादिति तस्यादितः-' इति सूत्रे कैयटे स्पष्टम् । ततश्च फलत्वव्याप्यया बदरत्वजात्या आमलकत्वजात्या चाविशेषात्तदाश्रयसकलव्यक्त्युपस्थितौ बदरामलकमित्येकवद्भावः । द्रव्यविशेषेति । श्रारण्यानि बदरामलकानीत्यादौ फलत्वव्याप्यबदरत्वामलकत्वादिजातिभ्याम् आरण्यत्वादिविशेषितकतिपयव्यक्तीनामेवोपस्थितिः । ग्राम्याणां व्यक्तीनामनुपस्थितेः तयोर्जात्योरप्राधान्याद् नायमेकवद्भाव इत्यर्थः । क्षीरोदके संपृक्त इत्यन्तादिवत्सूत्रभाष्यप्रयोगोऽत्र लिङ्गमित्याहुः। विशिष्टलिङ्गो नदीदेशोऽग्रामाः। अग्रामा इति च्छेदः । व्यत्ययेन बहुत्वे एकवचनम् । विपूर्वकशिषधातुः भेदे वर्ततेविवक्षितम् , न तु केषांचित्तरुशैलविशेषाणामिति जातिप्राधान्यादेकवद्भावमाशङ्कय तथोक्तमिति । बदरामलकानीति । 'फले लुक्' इति लुक् । 'लुक्तद्धितलुकि' इति स्त्रीप्रत्ययस्यापि लुकि फलत्वजात्युपसर्जनद्रव्यवचनावेतौ । 'विभाष वृक्षमृग-' इति सूत्रे बदराणि चामलकानि च बदरामलकम् । 'जातिरप्राणिनाम्' इत्येकवद्भाव इति वक्ष्यति, तत्तु नानेन ग्रन्थेन विरुध्यते । फलत्वजातिवाचिनां बहुवचनान्तानामेव द्वन्द्व एकवद्भवति, न त्वेकवचनान्तानां द्वन्द्व इति 'फलसेनावनस्पति-' इति वार्तिकोक्लनियममुपेत्य तत्प्रवृत्तेः । विशिष्टलिङ्गो । सूत्रे चत्वारोऽपि शब्दा अवयवधर्मेणावयविद्वन्द्व वर्तन्त इत्याशयेनाह-ग्रामेत्यादि । इह नदीवाचिनां द्वन्द्वः, देशवाचिना द्वन्द्व इति वाक्यभेदेन व्याख्येयम् । तेन गङ्गाकुरुक्षेत्रे इत्यत्र न भवति । देशशब्देनात्र प्रसिद्ध एव जनपदो गृह्यते, नद्याः पृथग् ग्रहणात् । तेन पर्वतानां न, कैलासश्च गन्धमादनं च कैलासगन्धमादने । नदीदेश इति किम् , कुक्कुटमयूर्यो । विशिष्टपदस्यार्थमाह