________________
प्रकरणम् २० ] बालमनोरमा तत्त्वबोधिनीसहिता। [१९३ उद्धपेरावति । गङ्गा च शोणम गङ्गाशोणम् । कुरवत्र कुरुक्षेत्रं च कुरुकुरुक्षेत्रम्। भिवलिङ्गानां किम्-गङ्गायमुने, मद्रकेकयाः । अप्रामाः किम्-जाम्बवं नगरम् , शालूकिनी ग्रामः-जाम्बवशालूकिन्यो । ६१२ तुद्रजन्तवः । (२-४-८) एषां समाहरि एव इन्द्व एकवस्यात् । यूकाजिलम् । पानकुलारपुद्रजन्तवः । ११३ येषां च विरोधःशाश्वतिकः। (२-४-६) एषां प्राग्वत् । अहिनकुखम्। विशेषणं विशेष्येणेत्यादौ यथा । विशिष्टं लिङ्गं येषामिति विग्रहः । तथा च ग्रामवाचकभिन्ना भिन्नलिङ्गका ये नदीवाचिनो ये देशवाचिनश्च तेषां द्वन्द्व एकवत् स्यादिति लभ्यते तदाह-ग्रामवर्जेति । समाहारे द्वन्द्व इति । एकवत्वविधेः फलाभिप्रायमेतत् , अस्यैकवद्भावप्रकरणस्य समाहार एव द्वन्द्व इति नियमार्यताया अनुपदमेवोक्तत्वात् । उद्धयश्चेति । उद्धयो नाम नदविशेषः, इरावती नाम काचिनदी । तयोर्नदीविशेषवाचकत्वादेकवत्त्वम् । नदीशब्देन नदस्यापि ग्रहणाद्, अन्यथा भिन्नलिमत्वासम्भवादिति भावः । जाम्बवशालूकिन्याविति । 'अप्रामाः' इत्यनेन ग्रामावयवकद्वन्द्वपर्युदासो विवक्षितः । अयं च द्वन्द्वो नगरपामोभयावयवकोऽपि प्रामावयवक इति तस्य पर्युदास इति भावः । वुद्रजन्तवः । एतेषां द्वन्द्व एकवदित्यर्थः । फलितमाह-एषां समाहार एव द्वन्द्व इति । यूकालिक्षमिति । यूकाश्च लिक्षाश्चेति विग्रहः । केशबहुले शिरःप्रदेशे खेदजा जन्तुविशेषा यूका लिक्षाश्च प्रसिद्धाः । एकवत्त्वं नपुंसकहखत्वं च । प्रा नकुलादिति । 'नकुलपर्यन्ताः क्षुद्रजन्तवः' इति भाष्यादिति भावः । येषां च । शेषपूरणेन सूत्रं व्याचष्टेएषां प्राग्वदिति । समाहारद्वन्द्व एकवदित्यर्थः । शश्वदित्यव्ययं सदेत्यर्थे वर्तते। भिन्नलिङ्गानामिति । विपूर्वो हि शिषिर्भेदार्थः । अत एव 'विशेषणं विशेष्येण-' इति सूत्रे भेदकं भेयेनेति व्याख्यातम् । समाहारे द्वन्द्व एकवत्स्यादिति । निष्कर्षाभिप्रायेणेयमुक्तिः । यथाश्रुताभिप्रायेण तु 'द्वन्द्व एकवत्स्यात्' इति केषुचित्सूत्रेषु व्याख्यायत इति ज्ञेयम् । उद्धयेरावतीति। उध्यो नदः सोऽपि नदीविशेषत्वानदीशब्देन गृहीतः, एवं शोणोऽपि । 'अग्रामा इत्यत्र नगरप्रतिषेधो वक्तव्यः । तेन मथुरापाटलिपुत्रम् इत्यत्र निषेधो न भवति, उभयोरपि नगरत्वात् । बुद्र । अपचितपरिमाणत्वं मुद्रत्वम् । तच्चापेक्षिकत्वादनवस्थितम् । यञ्च स्मर्यते-बुदजन्तुरनस्थिः स्यादथ वा तुद्र एव यः । शतं वा प्रसूतौ येषां केचिदानकुलादपि' इति । तत्र सर्वपक्षसाधारण्येनोदाहरति-यूकालिक्षामिति । प्रा नकुलादिति । नकुलपर्यन्ता इत्यर्थः । येषां च विरोषः। विरोधो बैरम् , न तु सहानवस्थामम् । तेनेह न-छायातपौ । शश्वदित्यम्ययं त्रैकाल्ये वर्तते, तत्र भवः शाश्वतिकः, 'कालाटुम् ।