________________
१६४ ]
सिद्धान्तकौमुदी ।
[ द्वन्द्वसमास
गोव्याघ्रम्, काकोलूकम् इत्यादौ परत्वाद् 'विभाषा वृक्षमृग-' ( सू ३१६ ) इति प्राप्तं चकारेण बाध्यते । ११४ शूद्राणामनिरवसितानाम् । (२-४-१०) अबहिष्कृतानां शूद्राणां प्राग्वत् । तचायस्कारम् । पात्राद्वहिष्कृतानां तु चाण्डालमृतपाः । ६१५ गवाश्वप्रभृतीनि च । ( २-४ -११ ) यथोचारितानि साधूनि ततो भवार्थे ठञ् । निपातनाद् अव्ययानां भमात्रे टिलोपः, 'इसुसुक्लान्तात्कः' इति कादेशश्च न भवति । स्वाभाविक इत्यर्थः । श्रहिनकुलमिति । श्रहयो नकुलाश्चेति विग्रहः । अनयोः स्वाभाविको विरोधः प्रसिद्धः । विरोधो वैरम्, न तु सहानवस्थितिः । तेन छायातपावित्यत्र न भवति । देवासुरा इत्यत्र तु नायमेकवद्भावः तद्विरोधस्य कादाचित्कत्वात् । अमृतादिप्रयुक्तः कादाचित्क एव हि तेषां विरोधः, अमृतमथनादि - काले तेषां विरोधाभावात् । ननु 'विभाषा वृक्षमृग-' इति सूत्रे पशुशकुनिद्वन्द्वयोरेकवद्भावविकल्पो वक्ष्यते । तस्य तावद् गोमहिषं गोमहिषाः, हंसचक्रवाकं हंसचक्रवाकाः, इत्यत्रावकाशः । येषां चेत्यस्य श्रहिनकुलमित्यवकाशः । गोव्याघ्रं काकोलूकमित्यादौ तदुभय प्रसक्तम् । तत्र परत्वाद्वक्ष्यमाणविभाषा प्राप्नोतीत्याशङ्कयाह -- गोव्याघ्रमिति । चकारेणेति । येषां चेति चकारेत्यर्थः । एतच भाग्ये स्पष्टम् । शूद्राणाम् । अनिरवसितशब्दं व्याचष्टे - वहिष्कृतानामिति । 'यैर्भुक्तं पात्र क्षारोदक प्रक्षालनेन संस्कारेणापि न शुध्यति ते निरवसिताः चाण्डालादयः । यैस्तु भुक्तं पात्रं संस्कारेण शुभ्यति तेऽनिरवसिताः' इति भाष्ये स्पष्टम् । शूद्राणामिति । त्रैवर्णिकेतरः शूद्रशब्देन विवक्षितः, अनिरवसितानामिति लिङ्गात् । प्राग्वदिति । समाहारद्वन्द्व एकवदित्यर्थः । तक्षायस्कारमिति । तक्षाणश्च श्रयस्काराचेति विग्रहः । अनिरवसितानामित्यस्य प्रयोजनमाह – पात्रादिति । चाण्डालमृतपा इति । एतद्भुक्तपात्रस्य संस्कारेणापि नास्ति शुद्धिरिति श्रत एव भाष्याद्विज्ञेयम् । अतएव निपातनाद् 'इसुसुक्कान्तात् -' इति कादेशः, 'अव्ययानां भमात्रे -' इति टिलोपश्च न । शाश्वतिकः किम्, ‘देवासुरैरमृतमम्बुनिधिर्ममन्थे' । तेषां व्यमृतादिप्रयुक्तः कादाचित्को विरोधो न तु नित्यः, मन्थनप्रवृत्तिकाले तद्विरहात् । परत्वादिति । पशुशकुनिद्वन्द्वस्यावकाशो गोमहिषं गोमहिषाः, हंसचक्रवाकं हंसचक्रवाकाः । 'येषां च - ' इत्यस्यावकाशो मार्जारमूषकं श्रमणब्राह्मणमित्यादौ ज्ञेयः । चकारेण बाध्यत इति । चकारः पुनर्विधायक इति भावः । शूद्राणाम् । त्रैवर्णिकेतरमनुष्यपरः शूद्रशब्दो न तु शूद्रत्वजातिपरः, 'अनिरवसितानाम्' इति निषेधात् । पात्रादिति । यैर्भुक्के 'भस्मना शुध्यते कांस्यम्' इत्यादिस्मृत्युक्तसंस्कारेणापि पात्रं न शुध्यति तेषामित्यर्थः । गवाश्व । यथोश्चारितानीति । गणपाठे पाणिनिना यथा पठितानि तथैव साधू
।