________________
प्रकरणम् २० ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ १६५ स्युः । गवाश्वम् । दासीदासमित्यादि । ६१६ विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् । ( २-४ -१२ ) वृषादीनां सप्तानां द्वन्द्वः, अश्ववडवेत्यादि द्वन्द्वत्रयं च प्राग्वद्वा । वृक्षादौ विशेषायामेव ग्रहणम्' (वा २१८) प्रतन्यग्रोधम्, प्रतन्यग्रोधाः । रुरुपृषतम्, रुरुपृषताः । कुशकाशम्, कुशकाशाः । व्रीहियवम्, व्रीहियवाः । दधिघृतम्, दधिघृते । गोमधर्मशास्त्रेषु च प्रसिद्धमेतत् । गवाश्वप्रभृतीनि च । यथा गणे पठितानि तथैव साधूनीत्यर्थः । गवाश्वमिति । गावश्चाश्वाश्चेति विग्रहः । अत्र 'विभाषा वृक्षा - ' इति पशुद्वन्द्वत्वाद् विकल्पे प्राप्ते नित्योऽयं विधिः । अत्र 'सर्वत्र विभाषा -' इति प्रकृतिभावे पूर्वरूपे च गो अश्वं गोऽश्वमिति नैकवत्त्वनियमः, यथोच्चारितानीत्युक्तेः, गणे च गवाश्वमित्येव निर्देशात् । गवाश्वादिषु 'यथोच्चारितं द्वन्द्ववृत्तम्' इति वार्तिकमत्र मानम् । दासीदासमिति । अत्रैकवत्त्वनियमः । 'पुमान् स्त्रिया' इत्येकशेषस्तु निपातनान्न । इत्यादीति । गवाविकं गवैड कैमित्यादि वृत्तौ स्पष्टम् । विभाषा वृक्ष । हन्द्व इत्यनुवृत्तम् । एकापि षष्ठी विषयभेदाद् भिद्यते । वृक्षादिसप्तानामवयवत्वेनान्वयः - वृक्षादीनां द्वन्द्व इति । वृक्षाद्यवयवको द्वन्द्व इति लभ्यते । श्रश्ववडवादियुगलत्रयस्य त्वभेदेनान्वयः - अश्ववडव, पूर्वापर, अधरोत्तर इत्यात्मको द्वन्द्व इति, तदाह - वृक्षादीनामिति । प्राग्वदिति । विकल्पेन एकवदित्यर्थः । वृक्षादाविति । वृक्षविशेषवाचिनां तृणविशेषवाचिनां धान्यविशेषवाचिनां पशुविशेषवाचिनां चेत्यर्थः । 'स्वं रूपम् -' इति सूत्रे भाष्यवार्तिकयोस्तथोक्तत्वादिति भावः । तथाच वृक्षाश्च धवाश्चेत्यादौ नायं विधिरिति फलितम् । किं तु 'जातिरप्राणिनाम्' इति नित्यमेवैकवत्त्वम् । तत्र वृक्षाद्यवयवकद्वन्द्वेषु सप्तसु वृक्षद्वन्द्वमुदाहरति — प्रक्षेति ! प्लक्षाश्च न्यग्रोधाश्चेति विग्रहः । मृगद्वन्द्वमुदाहरति - रुरुपृषतमिति । रखश्च पृषताश्चेति विग्रहः । तृणद्वन्द्वमुदाहरति — कुशेति । कुशाश्च काशाश्चेति विग्रहः । धान्यद्वन्द्वमुदाहरति- व्रीहीति । व्रीहयश्च यवाश्चेति विग्रहः । व्यञ्जनद्वन्द्वमुदानीत्यर्थः । तेनाव : पाक्षिकत्वाद्यदा नावड् तदा उत्तरसूत्रेण विकल्पो न भवति । गोश्रश्वम् । 'अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोश्रश्वाः' । गवाश्वमिति । इह पशुद्वन्द्वे विभाषा प्राप्ता । दासीदासमिति । अत्र 'पुमान्निया' इत्येकशेषो बाध्यते । विभाषा । विशेषाणामेवेति । श्रयं भावः - वृक्षादिशब्दैः प्रत्येकं द्वन्द्वो विशेष्यते, न चैको वृक्षशब्दो द्वन्द्वः, न च द्वयोः सह प्रयोगः, सरूपाणाम् -' इत्येकशेषात् । नापि पर्यायाणां 'विरूपाणामपि समानार्थानाम्' इत्येकशेषात् । नापि
--
१ 'गवाविकम्' इति क्वचिन्नास्ति । २ क्वचिद् ' गवैलकम्' इति पाठः ।