________________
१६६ ]
सिद्धान्तकौमुदी। [ द्वन्द्वसमास. हिषम्, गोमहिषाः। शुकबकम् , शुकबकाः। अश्ववडवम् , अश्ववडवौ। पूर्वापरम्, पूर्वापरे । अधरोसरम् , अधरोत्तरे। 'फलसेनावनस्पतिमृगशकुनिचुदजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम्' (वा १५४०) । बदराणि चामलकानि च बदरामलकम् । 'जातिरप्राणिनाम्' (सू ११० ) इत्येकवद्भावः । हरति-दधीति । दधि च घृतं चेति विग्रहः । पशुद्वन्द्वमुदाहरति-गोमहिषमिति । गावश्च महिषाश्चेति विग्रहः । शकुनिद्वन्द्वमुदाहरति-शुकेति । शुकाश्च बकाश्चेति विग्रहः। अश्ववडवादिद्वन्द्वमुदाहरति-अश्ववडवमिति । अश्वाश्च वडवाश्चेति विप्रहः । 'पूर्ववदश्ववडवौ' इति अश्ववडवावित्यत्र पूर्वपदवत् पुंलिङ्गता। फलसेनेति । एकवद्भावप्रकरणशेषभूतमिदं वार्तिकम् । 'द्वन्द्वश्च प्राणि-' इत्यादि. सूत्रैः फलसेनादीनां द्वन्द्व एकवद्भवन् बहुवचनान्तावयवक एव एकवद् भवति, नत्वेकद्विवचनान्तावयवक इत्यर्थः । तत्र फलद्वन्द्वमुदाहरति-बदराणि चेति । बदरीफलानि आमलकीफलानि चेत्यर्थः । विकारतद्धितस्य फले लुक । 'लुक्तद्धित. लुकि' इति स्त्रीप्रत्ययस्य लुक् । जातिरिति । बहुवचनान्तावयवकद्वन्द्वत्वाद् 'जातिरप्राणिनाम्' इत्येकवत्त्वमित्यर्थः । बहुप्रकृतिरेवेत्यस्य प्रयोजनमाह-नेहेति । बदरामलके इति । बदरं चामलकं चेति विग्रहः । बहुवचनान्तावयवकद्वन्द्वत्वाभावान 'जातिरप्राणिनाम्' इत्येकवत्त्वम् । रथिकाश्वारोहाविति । अत्र सेनाङ्गस्वेऽपि नैकवत्त्वम् । प्लक्षन्यग्रोधाविति । इह वृक्षद्वन्द्वत्वेऽपि 'विभाषा वृक्ष-' इत्येकवत्त्वं न । इत्यादीति । रुरुपृषतौ, अत्र मृगद्वन्द्वत्वेऽपि नैकवत्त्वम् । हंसचक्रवाको, अत्र शकुनिद्वन्द्वत्वेऽपि नैकवत्त्वम् । यूकालिने, अत्र क्षुद्रजन्तुद्वन्द्वत्वेऽपि नैकवत्त्वम् । व्रीहियवौ, अत्र धान्यद्वन्द्वत्वेऽपि नैकवत्त्वम् । कुशकाशी, अत्र तृणद्वन्द्वत्वेऽपि नैकवत्त्वम् । ननु 'चार्थे द्वन्द्वः' इत्यनेनेतरेतरयोगसमाहारद्वन्द्वाभ्यामेव एकवत्त्वविकल्पस्य सिद्धत्वाद् 'विभाषा वृक्ष-' इति सूत्रं व्यर्थमित्याशङ्कयाहविभाषेत्यादि विकल्पार्थमित्यन्तम् । वृक्षमृगतृणधान्यव्यञ्जनद्वन्द्वेषु प्लक्षन्यप्रोध रुरुपृषतं कुशकाश व्रीहियवं दधिघृतम् इत्येतेषु 'जातिरप्राणिनाम्' इति वृत्तश्च धवश्चेत्यादिसामान्यविशेषयोः, अनभिधानात्तत्र द्वन्द्वस्यैवाभावादिति । सर्वप्रकरणशेषतया नियममाह-फलसेनेत्यादि । फलसेनादीनां द्वन्द्वो 'विभाषा वृत्तमृग-' इत्यनेन लक्षणान्तरेण वा एकवद्भवन्बहुप्रकृतिरेव एकवद्भवतीत्यर्थः । बहवो वर्तिपदार्थाः, बहुवचनान्ता वा प्रकृतिः कारणं यस्य स बहुप्रकृतिः । बदराणि चामनकानि चेति । 'जात्याख्यायामेकस्मिन्-' इति वैकल्पिकं बहुवचनम् । बदरापलके इति । जातिप्राधान्येऽप्येकवचनान्तयोर्द्वन्द्व इति नास्त्येकवद्भाव इति भावः ।