________________
प्रकरणम् २० ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६७
नेह – बदरामलके, रथिकाश्वारोहौ, प्रतन्यग्रोधावित्यादि । 'विभाषा वृत्त-' ( सू ३१६ ) इति सूत्रे येऽप्राणिनस्तेषां ग्रहणं 'जातिरप्राणिनाम्' (स्० ११० ) इति नित्ये प्राप्ते विकल्पार्थम् । पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वानित्ये प्राप्ते 'मृगाणां मृगैरेव शकुनीनां तैरेवोभयत्र द्वन्द्वः, अन्यैस्तु सहेतरेतरयोग एव इति नियमार्थं मृगशकुनिग्रहणम् । एवं पूर्वापरम्, अधरोत्तरम् इत्यपि । अश्ववडबग्रहणं तु पक्षे नपुंसकत्वार्थम् । अन्यथा परत्वात् 'पूर्ववदश्ववडवौ' ( सू नित्यविहितैकवत्त्वानित्यत्वार्थमप्राणिवृक्षादिप्रहर हणमित्यर्थः 1 नन्वेवमपि पशुग्रहणं व्यर्थम्, तदुदाहरणे गोमहिषमित्यत्र 'जातिरप्राणिनाम्' इति नित्यैकवत्त्वनियमस्या प्राप्त्या तन्निवृत्त्यर्थत्वायोगादित्यत आह- पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वाद् नित्ये प्राप्ते इति । विकल्पार्थमित्यनुषज्यते । नन्वेवमपि मृगशकुनिप्रहणं व्यर्थम्, तदुदाहरणे रुरुपृषतं शुकबकमित्यादौ 'जातिरप्राणिनाम्' इति एकवत्त्वस्य सेनाङ्गनिबन्धनैकवत्त्वस्य च अप्राप्त्या तन्निवृत्त्यर्थत्वाभावेन 'चार्थे द्वन्द्वः' इत्येवेतरेतरयोगसमाहारद्वन्द्वाभ्यामकवत्त्वविकल्पसिद्धेरित्यत आह- मृगाणां मृगैरेवेत्यादि मृगशकुनिग्रहणमित्यन्तम् | मृगाणां मृगैरेव सह उभयत्र इतरेतरयोगे समाहारे च 'चार्थे - ' इति द्वन्द्वः । यथा - रुरुपृषतं रुरुपृषतावित्यादि । तथा शकुनीनां शकुनिभिरेव उभयत्र इतरेतरयोगे समाहारे च ' चार्थे - ' इति द्वन्द्वः । यथा शुकबकम्, शुकबकाविति । मृगाणां तदितरैः शकुनीनां तदन्यैश्च सह इतरेतरयोगद्वन्द्व एव भवति, न समाहारद्वन्द्वः । यथा - रुरुशुका इति । एतादृशनियमार्थ मृगशकुनिग्रहणमित्यर्थः । ननु पूर्वापरग्रहणम् अधरोत्तरग्रहणं च व्यर्थम्, 'चार्थे - ' इत्येव सिद्धेः । ‘जातिरप्राणिनाम्' इत्यादिनित्यैकवत्त्वस्य तत्र प्रवृत्त्या तनिवृत्त्यर्थत्वासंभवादित्यत आह – एवं पूर्वापरम् श्रधरोत्तरम् इत्यपीति । यथा मृगशकुनिग्रहणं मृगैरेव मृगाणां शकुनीनां तैरेव उभयत्र द्वन्द्वः एवं पूर्वशब्दस्य अपरशब्देनैव, अधरशब्दस्य उत्तरशब्देनैव उभयत्र इतरेतरयोगे समाहारे च द्वन्द्वः । अन्येन तु सह पूर्वोत्तरावित्यादौ इतरेतरयोग एवेति नियमार्थं पूर्वापरग्रहणम् - धरोत्तरग्रहणं चेत्यर्थः । ननु श्ववडवग्रहणं व्यर्थम्, सेनाङ्गत्वेऽपि पशुद्वन्द्वत्वादेव एकवद्भावविकल्पसिद्धेरित्यत आह- श्रश्ववडवेति । नपुंसकत्वविकल्पार्थमित्यर्थः । ननु समाहारस्य एकत्वादेव ऐकवत्त्वसिद्धेः इदम् एकवत्त्वप्रकरणं समाहार एव द्वन्द्व इति पशुग्रहणमिति । विकल्पार्थमित्यनुषज्यते । 'चार्थे द्वन्द्वः' इत्यनेनैव सिद्धे मृगशकुनिग्रहणं व्यर्थमित्याशङ्कयाह - मृगाणां मृगैरेवेत्यादि । नपुंसकत्वार्थमिति । श्रयं भावः - पशुत्वाद्विकल्पे सिद्धे अश्ववडवग्रहणं प्रतिपदविधानार्यम् ।