________________
१९८]
सिद्धान्तकौमुदी। द्वन्द्वसमास८.३) इति स्यात् । ६१७ विप्रतिषिद्धं चानधिकरणवाचि । (२-४-१३) विरुद्धार्थानामन्यवाचि द्वन्द्व एकवद्वा स्यात् । शीतोष्णम्, शीतोष्णे । वैकल्पिकः समाहारद्वन्द्वः 'चार्थे (सू १०१) इति सूत्रेण प्राप्तः, स विरुद्धार्थानां यदि भवति तद्रव्यवाचिनामेवेति नियमार्थमिदम् । तेन द्रव्यवाचिनामितरेतर. योग एव । शीतोष्णे उदके स्तः । विप्रतिषिद्धं किम् । नन्दकपाञ्चजन्यौ । इह नियमार्थमित्युक्तम् । तथा च पशुद्वन्द्वत्वाद् एकवत्त्वविकल्पे सति समाहारे वा इतरेतरयोगे वा द्वन्द्व इत्यनियमः पर्यवस्यति । एवं च समाहारद्वन्द्वपक्षे 'स नपुंसकम्' इति नपुंसकत्वम् , इतरेतरयोगे तु नेति नपुंसकत्वविकल्पस्य सिद्धत्वाद् अश्ववडवग्रहणं व्यर्थमेवेत्यत आह–अन्यथेति । इह नपुंसकत्वविध्यभावे समाहारद्वन्द्वपक्षेऽपि 'स नपुंसकम्' इति नपुंसकत्वं बाधित्वा परत्वात् 'पूर्ववदश्ववडवौ' इति पुंस्त्वं स्यात् । नपुंसकविधौ तु तत्सामर्थ्यात् समाहारद्वन्द्वपक्षे 'पूर्ववदश्ववडवौ' इत्येतद् बाधित्वा नपुंसकत्वं भवत्येव । अधिकारप्राप्तपूर्ववदश्वेत्येतत्तु इतरेतरयोगद्वन्द्व सावकाशमिति भावः । विप्रतिषिद्धं च । विभाषा इत्यनुवर्तते । विप्रतिषेधो विरोधः सहानवस्थानलक्षणः । अधिकरणं द्रव्यम् । अव्यवाचि विरुद्धार्थकं च यदनेकं सुबन्तं तदवयवको द्वन्द्वो विभाषैकवद्भावक इत्यर्थः । फलितमाह-विरुद्धार्थानामिति । गोत्वाश्वत्वं गोत्वाश्वत्वे, सुखदुःखं सुखदुःखे इत्यायुदाहरणम् । ननु 'चार्थे-' इति इतरेतरयोगसमाहाराभ्यामेवात्र एकवत्त्वविकल्पसिद्धेः इदं व्यर्थम् । न च 'जातिर. प्राणिनाम्' इति नित्यं प्राप्ते विकल्पार्थमिति वाच्यम् , जातिप्रवृत्तिनिमित्तकद्रव्यवाचिनां द्वन्द्व एव तत्प्रवृत्तेरित्यत आह-वैकल्पिक इत्यादि नियमार्थमिदमित्यन्तम् । तेनेति । उक्तनियमेनेत्यर्थः-शीतोष्णे उदके स्त इति। अत्र विरुद्धार्थकत्वे. ऽपि द्रव्यवाचित्वाद् न समाहारद्वन्द्व इति भावः । नन्दकपाञ्चजन्याविति । विष्णोः खगः नन्दकः, शङ्खस्तु पाञ्चजन्यः, तयोरेकत्र , विष्णौ सहावस्थानाद् न विरुद्धत्वमिति स्थितिः । इह विप्रतिषिद्धग्रहणाभावे 'चार्थे-' इति समाहारद्वन्द्वः अद्रव्यवाचिनामेवेति नियमो लभ्येत । एवं सति नन्दकपाञ्चजन्यमिति पाक्षिक समाहारद्वन्द्वो न स्यात् , समाहारद्वन्द्वस्य सर्वस्यापि अव्यवाचिष्वेव नियमितत्वात् । तेनाश्ववडवमित्येकवद्भावपक्षे 'पूर्ववदश्ववडवौ' इत्येतद्बाधित्वा ‘स नपुंसकम्' इत्येतदेव भवति। स इति तच्छब्देन ह्येकवद्भावभाजं परामृश्य विधीयमानं नपुंसकत्वमेकवद्भाववदेव प्रतिपदविहितं भवति । तथा च प्रतिपदोक्तस्य बलीयस्त्वानपुंसकत्वं सिध्यतीति । विप्रतिषिद्धम् । अधिकरणमिह द्रव्यम् । चकारो विभाषानुकर्षणार्थस्तदेतद्याचष्टे विरुद्धार्थानामित्यादि । उदाहरणं तु शीतोष्णं शीतोष्णे, सुखदुःखं सुख