________________
प्रकरणम् २० ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६६
पाक्षिकः समाहारद्वन्द्वो भवत्येव । ६१८ न दधिपयत्रादीनि । ( २-४-१४ ) एतानि नैकवत्स्युः । दधिपयसी । इध्माबर्हिषी । निपातनाद्दार्षः । ऋक्सामं । वायनसे । ६१६ अधिकरणैतावत्त्वे च । (२-४-१५) द्रव्यसङ्ख्यावगमे एकवदेवेति विप्रतिषिद्धमित्युक्तौ तु विरुद्धार्थानां समाहारद्वन्द्वश्चेत् तर्हि श्रद्रव्यवाचिनामेवेति नियमो लभ्यते । नन्दकपाञ्चजन्ययोश्चाविरुद्धत्वादयं नियमो न प्रवर्तते । ततश्च द्रव्यवाचित्वेऽपि ‘चार्थे-' इति कदाचित् समाहारद्वन्द्वः, कदाचित् इतरेतरयोगद्वन्द्वश्च भवत्येव । तदाह – इह पाक्षिकः समाहारद्वन्द्वो भवत्येवेति । म दधिपयआदीनि । एतानि नैकवत् स्युरिति । एषां समाहारद्वन्द्वो नास्तीत्यर्थः । दधिपसी इति । दधि च पयश्चेति विग्रहः । ' जातिरप्राणिनाम्' इति नित्यमेकवत्त्वं प्राप्तं बाधित्वा व्यञ्जनद्वन्द्वत्वाद्विकल्पः प्राप्तः सोऽपि न भवति । इध्मबर्हिषी इति । इध्मं च बर्हिश्चेति विग्रहः । दीर्घ इति । इष्मशब्दस्येति शेषः । ऋक्सामे इति । ऋक् च साम चेति विग्रहः । 'श्रचतुर' इत्यादिनाऽच्समासान्तः । वाङ्मनसे इति । वाक् च मनश्चेति विग्रहः । पूर्ववत्समासान्तः । अत्र गणे ब्रह्मप्रजापती इत्यादि पठितम् । समाहारद्वन्द्व एवेति नियमप्रक्रमेपि नानेन नियमस्यैव निषेधः, ब्रह्मप्रजापती इत्यादौ नियमस्या प्राप्तेः । किंत्वेकवत्त्वस्यैव । तथाच 'चार्थे - ' इति समाहारद्वन्द्वस्य निषेधः फलति । श्रधिकरणैतावत्त्वे च । अधिकरणं द्रव्यम्, तस्य एतावत्त्वमियत्ताविशेषः । तदाहद्रव्यसंख्यावगम इति । समस्यमानपदार्थस्येय त्ताविशेषे पदान्तर समभिव्याहारदुःखे इत्यादि । विरोधोऽत्र सहानवस्थानलक्षणः । भवत्येवेति । विप्रतिषिद्धप्रहणाभावे तु स न स्यात्, अद्रव्यवाचिनामेवेति नियमादिति भावः । श्रनधिकरणवाचीति किम्, शीतोष्णे उदके स्तः । इह पाक्षिकः समाहारद्वन्द्वोऽपि स्यादिति दिक् । न दधिपय । दधिपयसी इति । व्यञ्जनत्वाद्विकल्पः प्राप्तः । एवं 'मधुसर्पिषी, सर्पिर्मधुनी' इत्यत्रापि बोध्यम् । इह 'ब्रह्म प्रजापती' 'शिववैश्रवणौ' इत्यादौ समाहारद्वन्द्वनिषेधमुखेनेतरेतरयोगद्वन्द्वोऽनेन व्यवस्थाप्यते । तत्साहचर्याद्दधिपयसी इत्यादावपि तथैव । तेन तत्र व्यञ्जनत्वप्रयुक्तविकल्पे निषिद्धेऽपि जातिलक्षणो नित्यमेकवद्रावोऽस्त्विति न शङ्कनीयम्, किं च नेह लक्षणविशेष आग्रहः । ' एतानि नैकवत् स्युः ' इत्येकवद्भावमात्रस्य निषेधात् यथा 'न षट्स्वत्रादिभ्यः' इत्यत्र ङीप्टापोरुभयोरपि निषेधसिद्धये 'स्त्रियां यदुक्तं तन्न' इति सामान्यतो निषिध्यत इति दिक् । ऋक्सामे, वाङ्मनसे इति । 'भचतुर -' इत्यादिनात्र समासान्तोऽच् निपात्यते । श्रधिकररौ । समासार्थस्याश्रयोऽधिकरणं वर्तिपदार्थः, तस्यैतावत्त्वं परिगणननियमः, तस्मिन् गम्ब