________________
२०० ]
सिद्धान्तकौमुदी। [द्वन्द्वसमास. नियमो न स्यात् । दश दन्तोष्ठाः । १२० विभाषा समीपे । (२-४-१६) अधिकरणतावस्वस्य सामीप्येन परिच्छेदे समाहार एव इत्येवंरूपो नियमो वा स्यात् । उपदशं दन्तोष्ठम् । उपदशा दन्तोष्ठाः । ६२१ आनतो द्वन्द्वे । गम्ये इत्यर्थः । नियमो नेति । ब्रह्मप्रजापती इत्यादौ समाहार एव द्वन्द्व इति नियमस्य प्रकृतस्याप्रवृत्तेरेकवत्त्वनिषेधः पूर्वसूत्रे आश्रितः । इह तु बाधकाभावात् प्रकृतस्य नियमस्यैव निषेध आश्रित इति भावः । दश दन्तोष्ठा इति । दन्ताश्च श्रोष्ठाश्चेति विग्रहः । इतरेतरयोगद्वन्द्वोऽयम्, न तु समाहारद्वन्द्वः । समासार्थसमाहारविशेषणीभूतसमस्यमानपदार्थानां पदान्तरलभ्यदशत्वसापेक्षत्वेनासामर्थ्यात् । इतरेतर. योगद्वन्द्वस्तु भवत्येव,तत्र समस्यमानपदार्थानामेव प्रधानत्वाद् ‘उपमितं व्याघ्रादिभिःइति सूत्रभाष्ये प्रधानस्य सापेक्षत्वेऽपि समासाभ्युगमात् । ततश्चात्रैकवदेवेति नियमा. भावे सति असामर्थ्यात्समाहारत्वे निवृत्ते परिशेषादितरेतरयोगत्वमेवावतिष्ठते । यदि त्वेकवन्न स्यादित्येव व्याख्यायेत, तर्हि समाहारद्वन्द्वो नेत्यर्थः पर्यवस्येत् । तथा सति दश दन्तोष्ठा इतीतरेतरयोगद्वन्द्वो न स्यात् , 'द्वन्द्वश्च प्राणितूर्य-' इति तनिषेधात् । तथाच वाक्यमेव स्यात् । किंच समाहारद्वन्द्वनिषेधोऽयं व्यर्थ एव, उक्तरीत्या सापेक्षत्वेनासा देिवाप्राप्तः। अत एकवदिति नियमो.न स्यादित्येव व्याख्ययेम् । एवं च प्रारावानिवन्धनस्य एकवदेव स्यादिति नियमस्य इतरेतरयोगद्वन्द्वनिवृत्तिफलस्यानेन निषेधे सति इतरेतरयोगद्वन्द्वस्यावस्थितिः फलतीति पदमजयो स्पष्टम् । विभाषा समीपे । अधिकरणेतावत्त्वे इत्यनुवर्तते । समीपे इत्यस्य सामीप्येन परिच्छिन्ने मान इति व्याचष्टे-द्रव्यसंख्यावगम इति । नियमो न स्यादिति । न चेह प्राण्यङ्गत्वात्प्राप्तस्य 'एकवदेव' इति नियमस्य प्रतिषेधेऽपि 'चाय द्वन्द्वः' इति समाहारद्वन्द्वः स्यादिति वाच्यम्, 'सविशेषणानां वृत्तिने' इत्यभ्युपगमेन समाहारद्वन्द्वस्य प्राप्त्यभावात्। न चोकन्यायेनेतरेतरयोगद्वन्द्वोऽपि न स्यादिति वाच्यम् , सामान्याप्रयोगे इति लिशात् प्रधानस्य सापेक्षत्वेऽपि तदभ्युपगमात् । उक्त हि भाष्ये-'भवति वै प्रधानस्य सापेक्षस्यापि वृत्तिः' इति । स्यादेतत्-समाहारद्वन्द्वस्यात्र प्राप्त्यभावे 'द्वन्द्वश्व प्राणितूर्य-' इति नियमाप्रवृत्त्या इतरेतरयोगद्वन्द्वो निर्बाध एवेति सूत्रमिदमकिंचिकरमिति चेत्-अत्राहुः -'नियमसूत्राणां निषेधमुखेन प्रवृत्तिः' इति पक्षे 'द्वन्द्वश्व प्राणितूर्य-' इति सूत्रं केवलमितरेतरयोगद्वन्द्वनिषेधपरम् । तथा चेतरेतरयोगनिषेधस्य निषेधद्वारा इतरेतरयोगद्वन्द्वप्रापणार्थमिदमिति । एवं च निषेधमुखप्रवृत्तिपक्षस्य साफ्नावेदमिति फलितमिति दिक् । विभाषा समीपे । यद्यपीह 'समाहारद्वन्द्वः' एवेति भ्याख्यानेऽपि न क्षतिः, तथापि पूर्वसूत्रे नियमनिषेधस्योकत्वात्तदनुरोधेनाह