________________
प्रकरणम् २० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २०१
(६-३-२५) विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे श्रनङ् स्यादुत्तरपदे परे । होतापोतारौ । होतृपोतृनेष्टोद्गातारः । मातापितरौ । 'पुत्रेऽन्यतरस्याम्' ( सू ३८० ) सतीत्यर्थः । फलितमाह – अधिकरणेति । उपदशं दन्तोष्ठमिति । दशानां समीपे इत्यर्थेऽव्ययीभावः । उक्तरीत्याऽसामर्थ्येऽपि वचनसामर्थ्यात्समाहारद्वन्द्वः । समानलिङ्गवचनत्वादग्ययभावस्यैवानुप्रयोग इति भाष्यम् । अत एवोपदर्श दन्तोष्ठेनेत्यादि सिद्धम् । समीपसमीपिनोरभेदविवक्षायां सामानाधिकरण्यम् । नवत्वसंख्यदन्तोष्ठसमूह एकादशत्वसंख्यदन्तोष्ठसमूह इति वा बोधः । उपदशा दन्तोष्ठा इति । इतरेतरयोगद्वन्द्वोऽयम् । दशानां समीपे ये सन्ति ते उपदशा इति बहुव्रीहिः । नव एकादश वेत्यर्थः । बहुव्रीहेरेवात्रानुप्रयोगः समानलिङ्गवचनत्वाद् इति भाष्यम् । तद्वन्द्वे । विद्यायोनिसंबन्धवाचिनामिति । विद्यासंबन्धवाचिनां योनिसंबन्धवाचिनां चेत्यर्थः । 'ऋतो विद्यायोनिसंबन्धेभ्यः' इत्यतस्तदनुवृत्तेरिति भावः । ऋदन्तानामिति । बहुत्वे व्यत्ययेन 'ऋत:' इत्येकवचनम् । ऋदन्तसर्वावयक्कानामित्यर्थः · ऋत इत्यनुवर्तमाने पुनर् ऋत इत्युक्तिः एतदर्थेति भावः । उत्तरपदे पर इति । 'अलुगुत्तरपदे' इत्यधिकारादिति भावः । होतापोताराविति । होता च पोता चेति विग्रहः । विद्याद्वारकैकय ज्ञत्विक्त्वकृतः सम्बन्धः । आनङि ङकार इत्, प्रकार उच्चारणार्थः, 'ङिच्च' इत्यन्तादेशः, नलोपः, नकारस्तु रपरत्वनिवृत्यर्थ इति भाष्ये स्पष्टम् । होतृपोत्रिति । अत्र होतृशब्दस्य नियमो वा स्यादिति । उपदशं दन्तोष्ठमिति । एकवद्भावपत्ते अव्ययीभावस्यैवानुप्रयोगः । यदि तु बहुव्रीहेस्तदा 'उपदशस्य दन्तोष्ठस्य' इति षष्ठी स्यात्, 'उपदशं दन्तोष्ठस्य' इत्येवेष्यत इत्याकरः । दन्तोत्रस्य दर्शनमित्यभिप्रायेण षष्टयां कृतायामपि उपदशशब्दे षष्ठी नेष्यते । श्रतो बहुव्रीहेर्नानुप्रयोगः किं त्वव्ययीभावस्यैवेति तदाशयः । श्रनङ् । ऋत इति षष्ठ्यन्तं जातावेकवचनम् । 'ऋतो विद्यायोनिसंबन्धेभ्यः' इति त्वनुवर्तते, तचात्र षष्ठया विपरिणम्यते, तदाह - विद्यायोनिसंबन्धवाचिनामिति । ननु 'ऋत:' इत्यनुवर्तनादेव सिद्धे किमनेन ऋतोग्रहणेन । अत्राहुः - 'ऋतः' इति श्रूयमाणद्वन्द्वविशेषणम् । अनुवृत्तं तूत्तरपदे परतो यत्पूर्व तस्य विशेषणं पुत्रशब्दे पर आन विधास्यते तत्र कार्यिनिर्देशार्थम् । अन्यथा तत्पुत्रावित्यत्रापि स्यादिति । उत्तरपद इति । एतच 'अलुगुत्तरपदे' इत्यधिकारालभ्यते । उत्तरपदे परतः पूर्वं यदन्तं तस्यानङित्यर्थः । होतापोताराविति । श्रनको बित्त्वात्पूर्वान्त्यस्य ऋकारस्यादेशे सति नलोपः । न चाकारमात्रमेव विधीयतामिति वाच्यम्, 'उरा रपरः' इति रपरप्रसङ्गात् । नन्विहोत्तरपदेन पूर्वपदं