________________
२०२] सिद्धान्तकौमुदी। द्वन्द्वसमासइत्यतो मण्डूकप्लुत्या 'पुत्रे' इत्यनुवृत्तेः पितापुत्रौ । ६२२ देवताद्वन्द्धे च । (६-३-२६) इहोत्तरपदे परे प्रानङ् । मित्रावरुणौ । 'वायुशब्दप्रयोगे प्रतिषेधः' (वा ३६०७) अग्निवायू, वाग्वग्नी । पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेन ब्रह्मप्रजापती इत्यादौ नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतम्, नापि लोके प्रसिद्धं साहचर्यम् । ६२३ ईदग्नेः सोमवरुणयोः। (१-३-२७) देवपोतृशब्दस्य च नानङ्, नेष्ट्रशब्देन व्यवधानाद् उत्तरपदपरकत्वा भावात् । तथाच नेष्टशब्दस्यैवानङ् । उत्तरपदेन तु न पूर्वपदमाक्षिप्यते, समर्थसूत्रे नेष्टशब्दस्याऽऽनदर्शनात् । श्रथ योनिसंबन्धमुदाहरति-मातापितराविति । पितृपितामहा इत्यादौ तु नानङ् । ऋदन्तसर्वावयवकत्वाभावादिति भावः । तर्हि पितापुत्राविति कथमित्यत आह-पुत्रेऽन्यतरस्यामिति । 'ऋतो विद्यायोनिसंबम्धेभ्यः' इत्यत्र 'विभाषा स्वसृपत्योः' इत्यत्र च मध्येऽसंबन्धादाह-मण्डूकेति। अनुवृतेरिति । न च तातपुत्रावित्यत्रापि स्यादिति वाच्यम् , ऋदन्तस्य पुत्रे परे आनङ् स्यादिति वाक्यभेदेन व्याख्यानात्। देवताद्वन्द्वे च । मित्रावरुणाविति । इह ऋदन्तत्वाभावात् पूर्वेणाप्राप्ते विधिरयम् । वायुशब्देति । वायुशब्दस्य पूर्वपदत्वेनोत्तरपदत्वेन वा प्रयोगे सत्यानङः प्रतिषेधो वक्तव्य इत्यर्थः । ननु पूर्वसूत्राद् द्वन्द्वग्रहणे अनुवर्तमाने पुनः द्वन्द्वप्रहणं व्यर्थमित्यत आह-पुनरिति । निर्वापादौ प्रसिद्धसाहित्यकदेवतावाचक शब्दग्रहणार्थमित्यर्थः । तेनेति । प्रसिद्धसाहचर्यग्रहणेनेत्यर्थः । एतदिति । एतद् ब्रह्मप्रजापतियुगलं हविर्भागित्वेन न वेदे प्रसिद्धमित्यर्थः। नापि लोक इति । प्रौढिवादमात्रमेवेदम् , 'वेदे ये सहनिर्वापनिर्दिष्टाः, इत्येव भाष्ये दर्शनात् , लोकप्रसिद्धनाक्षिप्यते । अन्यथा होतृपोतृनेष्टोद्गातार इत्यत्र मध्यमस्यानङ् स्यात् । ततश्च विशेष्यासन्निधानाद् ऋत एव स्थाने आदेशेन भवितव्यम् , न तु ऋदन्तपदस्य स्थाने, इति किमनेनानछो ङित्करणेन, सत्यम्-डित्करणाभावे मित्रावरुणावित्यादौ 'देवताद्वन्द्वे च' इत्युत्तरपदे परे विधीयमान आदेशः पूर्वस्याक्षरस्य पदस्य वा स्यात् , पूर्वस्थाल एवेत्यत्र नियामकाभावात् । एतेन 'ऋत इति कार्यिनिर्देशार्थम्' इत्युक्तत्वानिर्दिश्यमानस्य ऋकारस्यैवादेशः स्यादिति ङित्करणं व्यर्थमित्याशङ्कापि परास्ता । नेटोगातार इति । न ह्यत्र नेष्टा पूर्वपदम् , आद्यवयवस्यैव पूर्वपदत्वात् । मातापितराविति । पुत्रोत्पादने अनयोर्योनिकृतः संबन्धः । पूर्वत्र तु हौत्रादिरूपविद्याकृतः संबन्ध एकस्मिन्यज्ञे आत्विज्यरूप इति विवेकः । मण्डूकप्लुत्येति । तेन 'विभाषा खसपत्योः' इत्यत्र न संबध्यत इति भावः।पितापुत्राविति । अनयोरपि योनिकृतः संबन्धो जन्यजनकभावलक्षणः । देवता । अनृकारान्तार्थमविद्यायोनिसंबन्धार्थ च वचनम् ।