________________
प्रकरणम् २०]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ २०३
ताद्वन्द्वे इत्येव । ६२४ अग्नेः स्तुत्स्तोमसोमाः । ( ८-३-६२ ) अनेः परेषा - मेषां सस्य षः स्यात्समासे । श्रग्निष्टुत् । श्रग्निष्टोमः । श्रग्नीषोमौ । अग्नीवरुणौ ।
१२५ इद्बुद्धौ । ( ६-३-२८ ) वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्याद्देवताद्वन्द्वे ।
1
अग्नामरुतौ देवते अस्य श्रग्निमारुतं कर्म । अनीवरुणौ देवते अस्य श्रभिवारुणम् । साहचर्यग्रहणे पार्वतीपरमेश्वरावित्यादावतिप्रसङ्गाच । ईदग्नेः । इत्येवेति । देवताद्वन्द्वे इत्यनुवर्तत एवेत्यर्थः । सोमशब्दे वरुणशब्दे च उत्तरपदे परे अमेरीदादेशः स्यात् देवताद्वन्द्वे इत्यर्थः । आनोऽपवादः । अग्नेः स्तुत् । स्तुत्, स्तोम, सोम इति द्वन्द्वात् षष्ठ्यर्थे प्रथमा । ‘सहेः साडः सः' इत्यतः स इति षष्ठयेकवचनान्तमनुवर्तते । अरिति पञ्चमी । 'समासेऽङ्गुलेः -' इत्यतः समासे इत्यनुवर्तते । तदाह - अग्नेः परेषामिति । षः स्यादिति । 'अपदान्तस्य मूर्धन्य.' इत्यनुवृत्तेरिति भावः । 'सात्पदाद्यो:' इति षत्वनिषेधापवादोऽयम् । श्रग्निष्टुदिति । ऋतुविशेषोऽयम् । अग्निष्टोम इति । स्तोत्र विशेषस्य संस्थाविशेषस्य च नाम । श्रग्नीषोमाविति । अग्निश्च सोमश्चेति विग्रहः । ईत्त्वषत्वे । अग्नीवरुणाविति । श्रभिश्च वरुणश्चेति विग्रहः । ईत्त्वम् । दॆवताद्वन्द्वे किम् ? अभिर्नाम कश्चित् सोमो नाम कश्चित् - अग्निसोमौ । श्रदेवताद्वन्द्वत्वादीत्त्वं न । अत एव च न षत्वम्, 'अग्नेर्दीर्घात् सोमस्य इष्यते' इति वार्तिकात् । इवृद्धौ । अग्नेरिति देवताद्वन्द्वे इति चानुवर्तते । वृद्धिशब्देन वृद्धिमल्लक्ष्यते, देवताद्वन्द्वे केवल वृद्धिरूपोत्तरपदासंभवात् । तदाहवृद्धिमतीति । इदिति तकार उच्चारणार्थः । प्रयोजनाभावान्नेत्संज्ञा । नापि तपरकरणम्, विधीयमानत्वादेव सवर्णग्राहकत्वात् । श्रग्नामरुताविति । श्रभिश्व मरुच्चेति विग्रहः । ‘देवताद्वन्द्वे च' इत्यानङ् | आग्निमारुतं कर्मेति । 'साऽस्य देवता' इत्यण् । तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् । अग्नीवरुणाविति । 'ईदग्मेः-' इतीत्त्वम् । अग्निवारुणमिति । साऽस्य देवता' इत्यण् । ननु ईदग्नेः । आनङोऽपवादोऽयम् । देवताद्वन्द्वे इत्येवेति । इदं च वृत्तिग्रन्थेस्थितम् । ज्योतिर्लतयोरदेवताद्वन्द्वेऽपि 'अग्नीषोमौ प्रणेष्यामि' इत्याश्वलायनप्रयोगस्त्वार्षत्वात्साधुः । यद्वा-मास्तु तदनुवृत्तिः, अभिसोमौ माणवकावित्यत्र 'अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः' इति न्यायेनादोषत्वात् । अग्नेः । 'सात्पदाद्योः ' इति निषेधेऽयमारम्भः । अग्निष्टुदिति । श्रभिः स्तूयतेऽस्मिन् स क्रतुविशेषः । संपदादित्वादधिकरणे किप् । अग्निष्टोम इति । श्रनीनां स्तोमोऽग्निष्टोमः । सोमयागस्य संस्थास्वाद्या संस्था उच्यते । इदुवृद्धौ । तकार उच्चारणार्थः । इकारस्येकारविधानं तु बाधकबाधनार्थम् । वृद्धिशब्देनात्र वृद्धिमद् गृह्यते, वृद्धिमात्रस्योत्तरपदस्या
w